Sanskrit & Trika Shaivism (English-Home)

O Javascript está desativado! Cheque este link!


 O Paramārthasāra de Abhinavagupta - Devanāgarī

A essência da Mais Alta Realidade (a Meta Suprema) - versão "somente Devanāgarī"

Tradução ao português brasileiro em progresso


 Introduction

Hi, Gabriel Pradīpaka again. Originally, this scripture was composed by Ādiśeṣa, but the greatest Trika Master, Abhinavagupta, refashioned it in order to transform it into a Trika scripture... and he succeeded! That is why I wrote the title as "Abhinavagupta's Paramārthasāra", to indicate that it is not the one of Ādiśeṣa as originally formulated. It consists of 105 stanzas dealing with Trika philosophy in general. In this sense, it is like a practical handbook for spiritual aspirants desirous to attain Final Liberation, much like a kind of Pratyabhijñāhṛdayam, but more extensive and complete. The work would not be complete without including the commentary of Yogarāja. Who is Yogarāja? He is the main disciple of Kṣemarāja, and Kṣemarāja is the main disciple of Abhinavagupta. In fact, Yogarāja also studied under the guidance of Abhinavagupta. The inclusion of his commentary will transform the Abhinavagupta's work into an extremely complete scripture teaching the main Trika's tenets.

Yes, I will add a lot of notes of explanation with more information for you to understand all of the topics so easily as possible. Aspirants who are beginners in reading Abhinavagupta's studies should start with his Paramārthasāra. In this scripture, the great Master goes right to the point without beating about the bush. And along with the commentary by Yogarāja, the scripture becomes a little gem summarizing Trika knowledge brilliantly.

This is a "Devanāgarī only" version, i.e. the entire text appears as it was composed originally in Sanskrit by the author. There is neither translation nor transliteration.

top


 Original Scripture

परमार्थसार

चिद्घनोऽपि जगन्मूर्त्या श्यानो यः स जयत्यजः।
स्वात्मप्रच्छादनक्रीडाविदग्धः परमेश्वरः॥१॥

योऽयं व्यधायि गुरुणा युक्त्या परमार्थसारसङ्क्षेपः।
विवृतिं करोमि लघ्वीमस्मिन् विद्वज्जनार्थितो योगः॥२॥

इह शिवाद्वयशासने देहादिप्रमातृताप्राधान्यस्वसङ्कल्पसमुत्थशङ्कातङ्कालस्यसंशयादिरूपविघ्नौघप्रसरप्रध्वंसपूर्विकां शास्त्रनिष्पत्तिं मन्यमानः परिमितप्रमातृताधस्पदीकारेण चिदानन्दैकघनस्वात्मदेवतासमावेशशालिनीं समस्तशास्त्रार्थसङ्क्षेपगर्भां प्रथमतः तावत्परमेश्वरप्रवणतां परामृशति

परं परस्थं गहनादनादिमेकं निविष्टं बहुधा गुहासु।
सर्वालयं सर्वचराचरस्थं त्वामेव शम्भुं शरणं प्रपद्ये॥१॥

त्वां सर्वप्रमातृस्फुरत्तासारं स्वात्मदेवतारूपमेव शम्भुमनुत्तरश्रेयःस्वभावं सत्तात्मकं शरणं त्रातारं त्वत्समावेशसमापत्तये संश्रये। एवकारः शम्भुं स्वात्मदेवताकारमेव प्रपद्ये न पुनर्मायान्तश्चारिणं कञ्चिद्भिन्नं देवम् — इत्यन्ययोगं व्यवच्छिनत्ति। अन्यच्च किम्भूतं परं पूर्णं चिदानन्देच्छाज्ञानक्रियाशक्तिनिर्भरमनुत्तरस्वरूपं तथा परस्थं गहनादिति गहनान्मायाभिधानात्तत्त्वात्परस्मिन् पूर्ण एव शिवादिविद्यातत्त्वपर्यन्ते शुद्धाध्वनि स्वरूपे तिष्ठन्तं न पुनस्तत्तदवस्थावैचित्र्येणापि स्फुरतस्ततः परस्मात्पूर्णात्स्वरूपात्तस्य प्रच्यावो भवति। यदुक्तम्

जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति।
निवर्तते निजान्नैव स्वभावादुपलब्धृतः॥

इति स्पन्दशास्त्रे। अनादिं पुराणं सर्वप्रतीतीनामनुभवितृतया प्रमातृत्वेनादिसिद्धत्वादेकमित्यसहायं चिदैक्येन स्फुरणाद्भेदस्यानुपपत्तेः। तथा निविष्टमित्यादि। एवञ्जातीयकमपि स्वस्वातन्त्र्येण बहुधा नानाप्रकारैर्भेदैर्गुहासु रुद्रक्षेत्रज्ञरूपासु हृद्गुहास्वन्तराविष्टं चैतन्यरूपोऽपि स्वयं जडाजडात्मतामाभास्य नटवन्नानाप्रमातृतया स्थितः — इति यावत्। अत एव सर्वालयमिति सर्वस्य रुद्रक्षेत्रज्ञादिप्रमातृप्रमेयरूपस्य जगत आलयं विश्रान्तिस्थानम्। सर्वमिदं किल पूर्णप्रमातरि स्थितं सद् ग्राह्यग्राहकयुगलकापेक्षयोन्मग्नमिव भेदेन प्रकाशमानं नानारूपैर्व्यपदिश्यतेऽन्यथैतस्य प्रकाशाद्भिन्नस्य सत्तैव न स्यात्कुत इदं विश्वम् — इति सर्वनामप्रत्यवमर्शः। न एतावता भगवतः समुत्तीर्णं स्वरूपम् — इत्याह सर्वचराचरस्थमिति। सर्वमिदं यज्जडाजडस्वभावं विश्वं तद्रूपतया तिष्ठन्तम्

कर्तासि सर्वस्य यतः स्वयं वै विभो ततः सर्वमिदं त्वमेव।

इति न्यायेन हि व्यतिरिक्तस्यान्यस्याप्रकाशमानस्य कार्यत्वानुपपत्तेः।

भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः॥

इति भगवानेव तथा तथा चकास्ति — इति। एवंविधं त्वामनुत्तरं सर्वस्य स्वात्मदेवतास्वरूपं पराहन्ताचमत्कारसारमपि गृहीतनानात्वमथ चात्यन्ताखण्डितस्वस्वातन्त्र्यपरमाद्वयप्रकाशस्वभावं भगवन्तं शम्भुं प्रपद्ये शरीरादिकृत्रिमाहङ्कारगुणीकारेणैतादृशं त्वामेव स्वात्मानं पराहन्ताचमत्कारस्वरूपं समाविशामि — इति यावत्। अनेन ग्रहणकवाक्येन परमोपादेयां स्वस्वभावसमावेशमयीं दशामुपदिशता गुरुणा वक्ष्यमाणहेयोपादेयतया सकलग्रन्थार्थोपक्षेपः कृतः॥१॥

एवं प्रकरणतात्पर्यमद्वयस्वरूपं स्तुतिद्वारेण प्रतिपाद्येदानीं शास्त्रावतारमभिदधत् सम्बन्धाभिधेयादिकं ग्रन्थकृदार्याद्वयेनाह

गर्भाधिवासपूर्वकमरणान्तकदुःखचक्रविभ्रान्तः।
आधारं भगवन्तं शिष्यः पप्रच्छ परमार्थम्॥२॥

आधारकारिकाभिस्तं गुरुरभिभाषते स्म तत्सारम्।
कथयत्यभिनवगुप्तः शिवशासनदृष्टियोगेन॥३॥

कश्चिद्भगवत्प्रसादात्समुत्पन्नवैराग्यः संसाराद्विरतमतिर्गुरोः शासनीयोऽस्मि — इति मत्वा सद्गुरुमाधारं भगवन्तं शेषाख्यं मुनिं सम्यगाराध्य परमार्थोपदेशश्वरूपं पृष्टवान्। तदा तद्योग्यतापरिपाकस्वरूपपरिशीलनक्रमेण तं शिष्यं विगलितान्तःकरणं मत्वा सोऽप्यनन्तनाथो निःशेषशास्त्रोपदेशज्ञः परमार्थसारनाम्नाधारकारिकाभिरित्यपराभिधानग्रन्थेन साङ्ख्यनयोक्तोपदेशानुसारेण प्रकृतिपुरुषविवेकज्ञानात्परब्रह्मावाप्तिः — इत्येवमेतं शिष्यं प्रोक्तवान्। स एव ब्रह्मोपदेशः परमाद्वयस्वरूपस्वस्वातन्त्र्यदृष्ट्या प्रतिपादितः सन् युक्तियुक्तो भवति — इति मत्वा सर्वं जनमनुग्रहीतुं परमाद्वयशैवनययुक्त्या गुरुरभिनवेनालौकिकेन चिच्चमत्कारस्फारेण गुप्तो गुह्यः सरहस्यः — इति। सोऽयं पुण्यनामाक्षरावलिस्तत्सारं तस्य परमार्थोपदेशस्य यत्सारं दध्नो नवनीतमिव उपादेयं परानुग्रहप्रवृत्तः सन् प्रतिपादयति — इति। एवं सम्बन्धाभिधेयाभिधानप्रयोजनादय उपपादिता नेह पुनः शास्त्रगौरवभयात्प्रतन्यन्ते। कीदृशः स शिष्यः — इत्याह गर्भाधिवास इति। गर्भाधिवासप्रारम्भं जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यति — इति तत्तदवस्थावैचित्र्येण षड्भावविकारनेमियुक्तं यन्मरणान्तकदुःखरूपमाविर्भावतिरोभावात्संसरणस्वभावतया चक्रमिव चक्रं तस्मिन् विभ्रान्तो विपरिवृत्तः। अनेनास्य प्राग्जातिस्मरणस्वभावो बोधाविर्भावो द्योतितोऽन्यथा कथं काष्ठाप्राप्तिलक्षणं प्रश्नकुतूहलित्वं स्यात्। एवं च यः समुत्पन्नवैराग्यः परमेश्वरानुग्रहशक्तिविद्धहृदयः समुदितसम्यग्ज्ञान उपदेशपात्रतामवाप्य परमेश्वराकारं समुचितमपि गुरुं समासाद्य परमाद्वयज्ञानमभिलषते स एव च गुरूपदेशभाजनं स्यात् — इति। एतदेव चान्यत्रोक्तम्

शक्तिपातवशाद्देवि नीयते सद्गुरुं प्रति।

इति।

दीयते परमं ज्ञानं क्षीयते कर्मवासना।

इति च। इह च पुरस्ताद्वक्ष्यते॥३॥

 अधुना समुत्पत्तिक्रमेण पीठिकाबन्धं विधाय विश्ववैचित्र्यचित्रेऽस्मिन् जगति पारमेश्वरमनुत्तमं स्वातन्त्र्यमेकमेव संयोजनवियोजनकर्तृत्वहेतुः — इति तच्छक्तिविकासमेव विश्वमण्डचतुष्टयमुखेनावेदयन् ग्रन्थमवतारयति

निजशक्तिवैभवभरादण्डचतुष्टयमिदं विभागेन।
शक्तिर्माया प्रकृतिः पृथ्वी चेति प्रभावितं प्रभुणा॥४॥

चिदानन्दैकघनेन प्रभुणा स्वतन्त्रेण भगवता महेश्वरेणाण्डचतुष्टयं विश्वाच्छादकत्वेन कोशरूपतया वस्तुपिण्डभूतमिदम्। यदुक्तम्

... वस्तुपिण्डोऽण्डमुच्यते।

इति। प्रभावितं प्रकाशितं भवनकर्तृतया वा प्रयुक्तम्। कस्मात् — इत्याह निजशक्तिवैभवभरादिति। निजः स्वात्मीयो योऽसावसाधारण इच्छाद्यः शक्तिप्रचयः तस्य यद्वैभवं विचित्रः प्रसरस्तस्य योऽसौ भरः समुद्रेकस्तस्मात् — इति। भगवतः किल स्वशक्तिविकासस्फार एव जगन्निर्माणं। यदुक्तं श्रीसर्वमङ्गलाशास्त्रे

शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते।
शक्तयोऽस्य जगत्सर्वं शक्तिमांस्तु महेश्वरः॥

इति । किं रूपाण्डचतुष्टयसङ्ख्या — इत्याह शक्तिर्माया प्रकृतिः पृथ्वी चेति। विश्वस्य प्रमातृप्रमेयरूपस्य पराहन्ताचमत्कारसारस्यापि स्वस्वरूपापोहनात्माख्यातिमयी निषेधव्यापाररूपा या पारमेश्वरी शक्तिः सैवाच्छादकत्वेन बन्धकतया शक्त्यण्डम् — इत्युच्यते। सदाशिवेश्वरशुद्धविद्यातत्त्वपर्यन्तदलं सद्वक्ष्यमाणमण्डत्रितयमन्तः समन्ताद्गर्भीकृत्यावतिष्ठते — इति कोशरूपतयैषा शक्तिरनेन शब्देन सञ्ज्ञिता। एतस्मिनण्डे सदाशिवेश्वरावेवाधिपती।

अन्यच्च मलत्रयस्वभावं मोहमयं भेदैकप्रवणतया सर्वप्रमातॄणां बन्धरूपं पुंस्तत्त्वपर्यन्तदलं मायाख्यमण्डम् — इत्युच्यते। तच्च वक्ष्यमाणमण्डद्वयमन्तः समन्तात्स्वीकृत्य स्थितम्। अण्डाधिपतिश्चात्र गहनाभिधानो रुद्रः।

तथा सत्त्वर्जस्तमोमयी प्रकृतिः कार्यकरणात्मना परिणता सती पशुप्रमातॄणां भोग्यरूपा सुखदुःखमोहरूपतया बन्धयित्री प्रकृत्यभिधानमण्डम् — इत्युच्यते। तत्रापि महाविभूतिः श्रीभगवान् विष्णुर्भेदप्रधानोऽण्डाधिपतिः।

तथा पृथ्वी चैवं मनुष्यस्थावरान्तानां प्रमातॄणां प्रतिप्रकाररूपतया स्थूलकञ्चुकमयी बन्धयित्री — इति कृत्वा पृथ्व्यण्डम् — इत्युच्यते। तत्रापि चतुर्दशविधे भूतसर्गे प्रधानतयाण्डाधिपो भगवान् ब्रह्मा — इति। एवं परमेश्वरविजृम्भितमिदमण्डचतुष्टयं भगवतेत्थं प्रकाशितं परिस्फुरति॥४॥

एवमेतदण्डचतुष्टयं प्रतिपाद्यात्रैव भोग्यभोक्तृत्वप्रतिपादनपरतया विश्वस्वरूपनिरूपणाय कारिकामाह

तत्रान्तर्विश्वमिदं विचित्रतनुकरणभुवनसन्तानम्।
भोक्ता च तत्र देही शिव एव गृहीतपशुभावः॥५॥

तत्र तेषु चतुर्ष्वण्डेष्वागमप्रसिद्धेषु विश्वमिदमन्तर्मध्ये वर्तते। कीदृशम् — इत्याह विचित्र इति। रुद्रक्षेत्रज्ञभेदभिन्ना नानामुखहस्तपादादिरचनारूपास्तनव आकारा विशिष्टसंस्थानरूपेणाश्चर्यभूताः। तथान्योन्यभेदेन सातिशयानि करणानि चक्षुरादीनि। तद्यथा — रुद्रप्रमातॄणां निरतिशयानि सर्वज्ञत्वादिगुणगणयुक्तानि तैः किल सर्वमिदमेकस्मिन् क्षणे युगपज्ज्ञायते सम्पाद्यते च। क्षेत्रज्ञानां पुनरेतान्येव करणानि परमेश्वरनियतिशक्तिनियन्त्रितानि सन्ति घटादिपदार्थमात्रज्ञानकरणसमर्थान्येव न तैः सर्वं ज्ञायते नापि क्रियते। तत्रापि योगिनामतिशयः करणानाम् — यन्नियतिशक्तिसमुल्लङ्घनात्तदीयेः करणैर्दूरव्यवहितविप्रकृष्टमपि परिच्छिद्यते परप्रमातृगतं च सुखदुःखादि ज्ञायते। एवं च तिरश्चामपि नियतिशक्त्या सङ्कुचितानामपि मनुष्येभ्योऽप्यतिशयः करणानां विद्यते। तद्यथा — गावः स्वगृहं व्यवहितमपि पश्यन्त्यश्वा रात्रावपि मार्गमीक्षन्ते गृध्रा योजनशतगतमप्यामिषमवलोकयन्ति पक्षिणो मक्षिका मशकपर्यन्ता आकाशविहारिणो दृश्यन्ते सरीसृपा उरसा पन्थानं गच्छन्ति दृशा च शृण्वन्ति शब्दानुष्ट्रा दूरादपि गर्तात्श्वासमात्रेण सर्पमाकर्षयन्ति — इति। एवं सर्वत्र करणवैचित्र्यमूह्यम्। तथा भुवनान्यागमप्रसिद्धानि वर्तुलत्र्यश्रचतुरश्रार्धचन्द्रछत्राकारतया सातिशयसंस्थानानि — इति। एवं विचित्रो नानातिशयाद्भुतस्वभाव एषां तनुकरणभुवनानां सन्तानोऽविरतबन्धप्रवाहो यस्मिन् विश्वस्मिन् तदेवंविधं विश्वम्। एवंविधे चात्र भोग्यस्वभावे विश्वस्मिन् भोक्त्रा भाव्यम् — इत्याह भोक्ता च तत्र देहीति। मलत्रयाघ्रातो देहो भोगायतनं विद्यते यस्याणोः स देही सुखदुःखादिस्वभावः शरीरी सुखदुःखादिमयेऽस्मिन् भोक्ता सुखदुःखाद्यनुभविता पशुप्रमाता — इति कथ्यते। ननु परप्रमात्रपेक्षयाणुमात्रस्यापि न भेदो विद्यते कुतस्तद्व्यतिरिक्तो देही नाम वराकः। यदुक्तम्

प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च।

इति।

एकैकत्र च तत्त्वेऽपि षट्त्रिंशत्तत्त्वरूपता।

इति न्यायाच्चैक एव स्वशक्तियुक्तो महाप्रकाशवपुरेव परमेश्वरः प्रमाता सर्वतोऽभिन्न एवावभासते। ततो भिन्नस्याप्रकाशमानस्य देहिनोऽस्तित्वाभ्युपगमेऽपि प्रकाशमानत्वानुपपत्तेर्न सत्ता निश्चीयते। प्रकाशते चेत्तस्मिन् परब्रह्मात्मनि तर्हि प्रकाशाभिन्न एवैकः प्रमाता — इति पुनरपि किम्परत्वेनायं भोग्यभोक्तृलक्षणः सन् भेदः — इति सर्वं समर्थयमान आह शिव एव गृहीतपशुभाव इति। योऽयं भगवान् समनन्तरं प्रतिपादितश्चिदानन्दैकघनः स्वातन्त्र्यस्वभावः शिवः स एव स्वरूपगोपनासतत्त्वः सन् स्वेच्छया नट इव देहप्रमातृभूमिकां समापन्नः पाल्यत्वात्पशुत्वात्पशुसत्तालक्षणश्च सुखदुःखादिमये स्वयंनिर्मितेऽस्मिन् भोग्ये भोक्ता देही — इति कथ्यते न पुनः शिवव्यतिरिक्तं किञ्चित्पदार्थजातमस्ति। एष एव च भगवान् शिवः स्वातन्त्र्याद्भोक्तृभोग्यलक्षणं प्रमातृप्रमेययुगलकं क्रीडनकमिव समुत्थापयति यदपेक्षयायं भेदप्रधानो व्यवहारः। तस्मादेतदेव परमेश्वरस्य स्वातन्त्र्यं निरतिशयं यत् पूर्णस्वरूपतापरित्यागेन भोक्तृभोग्यस्वभावं पशुभावमापन्नोऽपि सर्वप्रमातॄणामनुभवितृतया स्वात्मनि प्रस्फुरंश्चिदानन्दैकघनः शिव एव॥५॥

एवमप्येकश्चित्स्वभावः प्रमाता स यदि मायादिप्रमातृप्रमेयवैचित्र्येण नानात्वादनेकः — इति कथं विरुद्धयैकतया व्यवह्रियत एकश्चेत्किमिति नानारूपः — इति छायातपवद्विरोधाद्विरुद्धधर्माध्यासः समापतति न पुनरनेकरूप एकश्च पदार्थः स्यात्। यदुक्तम्

अयमेव भेदो भेदहेतुर्भावानां यद्विरुद्धधर्माध्यासः कारणभेदो वा।

इति। लौकिकमत्र दृष्टान्तं प्रदर्शयन् दार्ष्टान्तिके चोद्यं समर्थयते

नानाविधवर्णानां रूपं धत्ते यथामलः स्फटिकः।
सुरमानुषपशुपादपरूपत्वं तद्वदीशोऽपि॥६॥

यथैकोऽपि स्फटिकमणिस्तत्तल्लाक्षानीलाद्युपाधिवैचित्र्यसहस्रेण तत्तद्वैचित्र्यं स्वात्मनि धारयंस्तथा विचित्रितो भवति न पुनस्तस्य स्फटिकताहानिरेतावता समुत्पद्यते। एतदेव स्फटिकमणेर्मणित्वं यत्तत्तद्विशेषेणाच्छुरितेऽपि तस्मिन् स्फटिकमणिरयम् — इत्यबाधिता सर्वस्य सर्वदैव प्रतीतिः। केवलमत्रामी लाक्षादयः स्फुरन्ति — इति व्यवह्रियते न पुनर्लाक्षाद्युपाधिः पटमिव तं विशिनष्टि येन स्वरूपविप्रलोपोऽस्य स्यात्। तस्मादेतदेवामलत्वं मणेर्यदुपाधिरूपान् आकारान् बिभर्ति स्वस्वरूपतया च प्रथते। तथैवायमीश्वरः स्वतन्त्रश्चिदेकघन एककोऽपि स्वच्छे स्वात्मदर्पणे देवमनुष्यपशुपक्षिस्थावरान्तानां रुद्रक्षेत्रज्ञादिपदार्थरूपाणां विशेषाणां स्वयं निर्मितानां च रूपत्वं वर्णवैचित्र्यं स्फटिकमणिवत्स्वात्माभेदेन धारयंस्ततोऽपि समुत्तीर्णत्वादहम् — इत्येवमखण्डचमत्कारोपबृंहितं नानारूपमप्येकं स्वात्मानं प्रत्यवमृशति। इत्थमप्यस्यैकताखण्डनामयो भिन्नरूपो देशः कालो वा न कश्चिद्विद्यते यदपेक्षयैतस्य स्वात्ममहेश्वरस्य विरुद्धधर्माध्यासादिदूषणमुच्येतापि। साक्षात्कारलक्षणं चित्रज्ञानं नानाभेदसम्भिन्नमपि परैरप्येकमेव तदभ्युपगतम्। यथा

नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक्।
अशक्यदर्शनस्तं हि पतत्यर्थे विवेचयन्॥

इति प्रमाणवार्त्तिके। किं पुनः सर्वतः पूर्णस्य ज्ञातुश्चिदेकवपुषः स्वतन्त्रस्य याविमौ देशकालौ भेदकतयाभिमतौ मूर्तिवैचित्र्यक्रियावैचित्र्याभ्यां यस्य समुल्लासकतया स्थितौ कथं तस्यैव भगवतो व्यवच्छेदकौ स्याताम्। यदि नाम देशकालयोः कदाचित्संविदो भेदेन स्थितिरभविष्यत्तदा तत्कृतोऽपि विरुद्धधर्माध्यास उदपत्स्यत — इति तत्र सम्भावना स्यात्। यावता तयोः संवित्प्रकाशेनैव स्वात्मसत्तासिद्धिः — इति सिद्ध एवानेकस्वभावोऽप्येक एव महेश्वरश्चिन्मूर्तिर्भेदधर्मे पुनर्विरुद्धधर्माध्यासो दुरुद्धर एव — इति॥६॥

नन्वेक एव संवित्सतत्त्वः प्रमाताभ्युपगतस्तनुकरणभुवनतां समापन्नः सन् स एवानेकतां यातः - इति चेत्तर्हि तन्वादिविनाशे स एव विनष्टः स्यात्तदुत्पत्तौ वैष एव तदोत्पद्येत। एवं प्रतिप्रमातृ स एव जायतेऽस्ति - इत्यादि षड्भावविकारतया व्यवच्छिद्यते पुण्यपापस्वभावकर्मवैचित्र्येणैतस्यैव भगवतः स्वर्गनरकादिभोगः प्राप्तः - इति कथमुच्यते - स्वस्वरूप एव शिवः - इति। दृष्टान्तद्वारेणैतदपि समर्थयते

गच्छति गच्छति जल इव हिमकरबिम्बं स्थिते स्थितिं याति।
तनुकरणभुवनवर्गे तथाऽयमात्मा महेशानः॥७॥

यथा जलप्रवाहे याति सति हिमकरबिम्बं चन्द्रवपुर्वस्तुवृत्तेनाकाशस्थं स्वयमचलत्तात्मकं जलप्रवाहान्तःपतितमपि तद्गच्छति प्रयाति इव तथा तस्मिन्नेव क्षणेऽन्यत्र जलाशये निःस्तिमिते सति तदेव हिमकरबिम्बं स्थितिं गच्छतीव — इत्युभयथा सर्वप्रमातृभिरेतत्सम्भाव्यते न पुनः परमार्थेन तत्तथैव स्यात्। नापि जलगतौ देशकालौ भेदकतया चन्द्रमसः स्वरूपं गगनस्थं परामृशतः केवलं जलमेव तादृशमथ च तत्प्रतिबिम्बितस्य चन्द्रबिम्बस्य जलगतचलत्ताचलत्तादिको भेदो व्यवह्रियते — इत्येतावता गङ्गाजलगतस्य कर्दमपतितस्य वा शशिनः स्वस्वरूपतायां न काचित्क्षतिः। तथैवायमात्मा चैतन्यस्वभावः स्वयं निर्मिते तनुकरणभुवनसमूहे परिक्षीणे सति समुत्पन्ने वा प्रक्षीणः समुत्पन्नश्च — इति मायाव्यामोहितानां व्यवहारमात्रमेतज्जलगतचन्द्रवन्न पुनः स्वात्मा जायते म्रियते वा — इति। गीतासु एवमेवोक्तम्

न जायते म्रियते वा कदाचित् नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥

इति। तस्मादन्यमात्मा महेशानः स्वतन्त्रः सर्वस्वात्मप्रत्यवमर्शस्वभावः सर्वप्रमातॄणामनुभवितृतया प्रथमानस्ततस्तत्तदवस्थाविप्रलोपे समुत्पत्तौ वा स्वस्वरूप एव। एतदेव च दुर्घटकारि महेशानत्वं संवित्तत्त्वस्य यत्तथा तथा पशुप्रमातृतया स्वर्गनरकादिभोगभोक्ताऽपि सर्वानुभवितृतया संवित्स्वरूप एव। प्रत्युत पुण्यपापस्वर्गनरकक्षुत्पिपासादिको योऽयं पशुभावो बन्धकतया नियतः स यदि भगवता स्वात्मप्रकाशेन प्रकाशितः परामृष्टश्च स्यात्तदा यथोक्तां स्वात्मनि सत्तां लभतेऽन्यथा निःस्वभाव एवैषः — इति कथं स्वात्मनस्तस्यैव महेशस्य स्वरूपविप्रलोपायोच्यते। सर्वथा निर्मितमेव वस्तु संहार्यं समुत्पाद्यं वा देहादिरूपं स्यान्न पुनर्नित्ये भगवति चैतन्ये समुत्पत्तिविनाशौ कदाचिद्भवेताम्। तस्मादेक एवात्मा ग्राह्यग्राहकतया नानारूपस्वभावः सन् पुनरपि सर्वानुभवितृतया सर्वस्यैकतया प्रथते — इति न काचिदद्वयवादक्षतिः॥७॥

 इत्थमपि सर्वेषामयमात्मा विश्वप्रपञ्चस्वभाव एव संविन्मात्रपरमार्थः सर्वावभासः सर्वत्र संविदनुगमात् — इति युक्त्यागमाभ्यां प्रतिपादितश्चेत्किमिति लोष्टादावप्यविशेषात्स्वात्मतया स न प्रतीयतेऽभ्युपगमे वा जडाजडव्यवस्थेयं भासमाना न सङ्गच्छते लोकव्यवहारश्च जडाजडरूपः — इति कथमेतत्स्यात् - इत्याह

राहुरदृश्योऽपि यथा शशिबिम्बस्थः प्रकाशते तद्वत्।
सर्वगतोऽप्ययमात्मा विषयाश्रयणेन धीमुकुरे॥८॥

आकाशदेशो राहुः सर्वत्र परिभ्रमन्नपि नोपलभ्यते स एव पुनर्ग्रहोपरागकाले चन्द्रमूर्तिस्थः प्रथमानोऽयं राहुः — इति परीक्ष्यतेऽन्यथा स्थितोऽपि भचक्रेऽस्थित इव। तथैवेहापि सर्वान्तरतमत्वेन स्थितोऽप्ययमात्मा स्वानुभवैकस्वरूपतया प्रत्यक्षपरिदृश्यमानः सर्वस्य तथा नोपलक्ष्यते। यदा पुनः पुर्यष्टकप्रमातॄणां बुद्धिदर्पणे प्रतिभामुकुरे ग्राह्यव्यवस्थाकाले शब्दादिविषयस्वीकारेण शृणोमीत्येवमहम्प्रतीतिविषयो भवति तदा ग्राहकस्वभावतया लोष्टादावपि स्थितः सन् स्फुटरूपस्तत्रैव स्वात्मा प्रकाशते सर्वैश्च स्वानुभवैकरूपः प्रतीयते लोष्टादावत्यन्ततमोमयत्वात्स्थितोऽप्यस्थितकल्पोऽसौ प्रथते राहुराकाशे यथा। एवमयं भगवान् मायाशक्त्या स्वात्मकल्पेऽपि भाववर्गे कांश्चित्पुर्यष्टकस्वरूपान् वेद्यखण्डानप्यहन्ताव्यवस्थारसाभिषिक्तान् वेदकीकरोति कांश्चिद्वेद्यीकरोति यदपेक्षयायं जडाजडव्यवस्थास्वरूपो भेदव्यवहारः सुस्थित एवोपपद्यते। तेन लोष्टादिर्वेद्यत्वाज्जडो वेदकत्वात्पुर्यष्टकप्रमाताप्यजडः। न पुनः परमार्थेन परमेश्वरापेक्षया जडाजडव्यवहारः — इति॥८॥

ननु सर्वप्रमातॄणां बुद्धौ चेत्स्वात्मनोऽप्यविशेषेण प्रस्फुरणं तर्हि ते सर्वे किमिति स्वात्मविदो न स्युस्तज्ज्ञानवन्तो मा वा भूवन् विशेषाभावात्। यत्पुनः संसारावस्थायामपि केचन स्वात्मज्ञानाज्जीवन्मुक्ताः सर्वज्ञात्वसर्वकर्तृत्वशालिनः केचन स्वात्मज्ञानयोग्या आरुरुक्षवश्च दृश्यन्त अपरे स्वात्मज्ञानरहिताः सन्तो धर्माधर्मनिमित्तशुभाशुभकर्मनिगडप्रबन्धबद्धाः संसारिण एवेति कथमेतत्सङ्गच्छत इत्थमन्तः सर्वं कृत्वा पारमेश्वरः शक्तिपातो विशृङ्खलः — इति प्रतिपादयति

आदर्शे मलरहिते यद्वद्वदनं विभाति तद्वदयम्।
शिवशक्तिपातविमले धीतत्त्वे भाति भारूपः॥९॥

दर्पणे मालिन्यरहिते यथा निर्विशेषरूपादिगुणगणयुक्तं मुखं चकास्ति — न स देशोऽस्ति यं विनिवृत्तमल आदर्शो न स्वीकुरुते। समले दर्पणे तु मुखमनन्यातिशयमपि ध्यामलत्वाद्वैपरीत्येन प्रकाशते। नापि मलिनस्तदीयान् गुणान् स्वीकर्तुमलम्। प्रत्युत तन्न्यस्तमुखः पुमान् मुखमन्यथैव ध्यामलत्वाद्युपेतमवलोक्य स्वात्मनो लज्जामावहति विकृतं मद्वदनमिति। तथैव शिवस्य स्वात्मनो यासावनुग्रहाख्या शक्तिस्तस्याः पातः स्वकिरणविस्फारस्तेन सम्मार्जिते प्रतिभामुकुर आणवमायीयकार्ममलवासनाप्रक्षयाद्विशदीकृते केषाञ्चिदपश्चिमजन्मनां प्रमातॄणां भाः प्रकाशो रूपं यस्य — इति स भारूपः स्वात्मा यावत्सर्वज्ञत्वादिगुणगणयुक्तस्तावानप्यवभासते येन केचनैव ते स्वात्मस्वरूपप्रथनात्संसारमध्यपतिता अपि मुक्तकल्पाः सातिशयाश्च। केषाञ्चिदेव परमेश्वरतिरोधानशक्त्या आणवमायीयकार्ममलसमाच्छादिते बुद्धितत्त्वे भारूपोऽप्यात्मा मालिन्याद्भातोऽप्यभातकल्पो येन ते सांसारिकाः पशवः — इत्यभिधीयन्त अन्येऽप्युभयशक्तियोगात्प्रमातार आरुरुक्षवः — इति। इत्थं तीव्रमन्दमन्दतरादिभेदेन शक्तिपातवैचित्र्यं सर्वत्राप्यूह्यम्। अत्र न मायान्तःपातिनियतिशक्तिसमुत्थमश्वमेधादिकं जपध्यानादि वान्यद्यत्किञ्चित् कर्म मोचनहेतुरात्मनस्तस्य हि मायातः समुत्तीर्णत्वाद्भेदप्रधानं वस्तु तत्साधनाय न प्रकल्पते। यद्गीतम्

नाहं वेदैर्न तपसा न दानेन न चेज्यया।

इति। तस्मादेकमेवात्र परमेश्वरानुग्रहः कारणमकृत्रिमं भव्यबुद्धीनाम्। यदुक्तम्

ईशितुः शक्तिपातांशे ख्यापयित्री स्वतन्त्रताम्।
धीः कारणकलाघ्राता नैव किञ्चिदपेक्षते॥

इति। पशुप्रमातॄणां तु परमेश्वरतिरोधानशक्तिः संसरणहेतुरेव येनैते स्वस्वरूपाप्रथनात्शुभाशुभकर्मनिरताः सुखदुःखादिभोगभाजः पुनः पुनरस्मिन् संसरन्ति। तस्मात्प्रमातॄणां साधारणेऽपि स्वात्मनि प्रकाशाप्रकाशरूपेऽनुग्रहतिरोधानशक्ती द्व एव ते मोक्षबन्धप्रविभागहेतू। यदुक्तम्

बध्नाति काचिदपि शक्तिरनन्तशक्तेः क्षेत्रज्ञमप्रतिहता भवपाशजालैः।
ज्ञानासिना च विनिकृत्य गुणान् अशेषान् अन्या करोत्यभिमुखं पुरुषं विमुक्तौ॥

इति॥९॥

एवमिदं सर्वमागमानुभवयुक्तियुक्तं प्रतिपाद्य यत् प्राक् शक्त्याद्यण्डचतुष्टयं प्रतिपादितं तदन्तरालवर्ति समुत्पत्तिक्रमेण षट्त्रिंशत्तत्त्वात्मकं जगत् यल्लग्नं भाति तत् प्रथमतः कारणकारणं परमशिवस्वरूपं कारिकाद्वयेनाह

भारूपं परिपूर्णं स्वात्मनि विश्रान्तितो महानन्दम्।
इच्छासंवित्करणैर्निर्भरितमनन्तशक्तिपरिपूर्णम्॥१०॥

सर्वविकल्पविहीनं शुद्धं शान्तं लयोदयविहीनम्।
यत् परतत्त्वं तस्मिन् विभाति षट्त्रिंशदात्म जगत्॥११॥

यदेवंविधं परं पूर्णं शिवतत्त्वं तत्र शिवादिधरापर्यन्तं वक्ष्यमाणं विश्वं विश्रान्तं सत् प्रकाशते तदभिन्नमेव चकासद्युक्त्योपपद्यते - इति यावत्। ननु तन्यते सर्वं तन्वादि यत्र तत् तत्त्वं तननाद्वा तद् आप्रलयं तस्य भावः - इति वा तत्त्वमित्येवमपि तत्त्वव्यपदेशोऽयं जाड्यापादकः कथं चिद्रूपे भगवति परमशिवे स्यात् - उच्यते। उपदेश्यजनापेक्षया यावता शब्देन प्रतिपाद्यते तावता तत्र तत्त्वव्यपदेशो न वस्तुतः। कीदृशं तत् परं तत्त्वं भाः प्रकाशो रूपं स्वभावो यस्य महाप्रकाशवपुः - इत्यर्थः। तथा परिपूर्णं निराकाङ्क्षम्। निराकाङ्क्षमपि स्फटिकमणिदर्पणादि जडं वस्तु भवति - इत्याह स्वात्मनि विश्रान्तितो महानन्दमिति। स्वस्मिन् स्वभावेऽखण्डाहन्ताचमत्काररसे विश्रमान्महान् आनन्दः परा निर्वृतिर्यस्य - इति। तदेवं परमाह्लादकस्फुरत्तासारत्वात्प्रकाश्यस्फटिकादेर्जडाद्वैलक्षण्यमुक्तं भवति। अत एवाह इच्छासंवित्करणैर्निर्भरितमिति। इच्छाज्ञानक्रियाशक्तिस्वभावमेव न पुनः शान्तब्रह्मवादिनामिव शक्तिविरहितं जडकल्पम्। अन्यच्चानन्तशक्तिपरिपूर्णमिति। अनन्ता निःसङ्ख्या घटपटाद्या नामरूपात्मिकाः शक्तय इच्छाज्ञानक्रियाशक्तीनां पल्लवभूता ब्राह्म्याद्याः शक्तयः शब्दराशिसमुत्थास्ताभिः परितः समन्तात्पूर्णं व्याप्तं तत एवोल्लसन्त्यस्तत्रैव शाम्यन्ति - इति। एवं परावाग्रूपं भगवति स्वातन्त्र्यमुक्तं स्यात्। ननु वाग्रूपं चेत्परं तत्त्वं तर्हि काल्पनिकं शब्दसम्भिन्नत्वात् कथं शुद्धप्रकाशवपुषि कल्पनायोगः - इत्याशयेनाह सर्वविकल्पविहीनमिति। परप्रमातरि योऽयं पराहन्ताचमत्कारः स वाग्रूपोऽपि निर्विकल्पः। विकल्पो ह्यन्यापोहलक्षणो द्वयं घटाघटरूपमाक्षिपन् अघटाद्व्यवच्छिन्नं घटं निश्चिनोति। प्रकाशस्य पुनः पराहन्ताचमत्कारसारस्यापि नाप्रकाशरूपः प्रकाशादन्यः प्रतिपक्षतया विद्यते यद्व्यवच्छेदात्तस्य विकल्परूपता स्यात्। व्यवच्छेद्यो ह्यर्थोऽप्रकाशात्मा प्रकाशवपुषि प्रकाशते चेत्तर्हि

तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः।

इत्यादिन्यायेन योऽप्यर्थः प्रकाशस्वभावतां यातः सन् स कथं स्वात्मनस्तस्यैव व्यवच्छेदकः स्याद्येन विकल्परूपतां तत्र समावहेत्। अथ प्रतिपक्षतया न प्रकाशते - इति कथमिहाप्रकाशमानः पदार्थः प्रतिपक्षरूपोऽस्तीति परिच्छेत्तुमपि शक्येतेति यत्किञ्चिदेतत्स्यात्। यतः सर्वैर्व्यवच्छेदात्मकैर्विकल्पैर्विहीनमपरिच्छिन्नस्वभावं परं तत्त्वम्। अत एवाह शुद्धमिति विमलं विकल्पमय्याशुद्धिमष्याभावात्। तथा शान्तमिति। ग्राह्यग्राहकसमुत्थक्षोभाभावात्शक्तिसामरस्येन स्वस्वरूपस्थं न पुनरश्मशकलकल्पम्। अन्यच्च लयोदयविहीनमिति।

सकृद्विभातोऽयमात्मा।

इति कृत्वा सनातन एव। अतो भूतभविष्यद्वर्तमानवपुः कालः तत्र न क्रमते यतः कालस्य तत एव समुल्लासः - इति समुत्पत्तिविनाशबहिष्कृते परतत्त्वेऽभ्युपगते विश्वस्य विश्वत्वमुपपन्नम् - इति प्रतिपादितं स्यात्॥११॥

 नन्वेवंविधे परतत्त्वे जगद्भाति — इति यत् प्रतिपादितं तत् कथमेतत्स्याद्यावता परतत्त्वापेक्षया न किञ्चिद्भेदेन भातुं प्रगल्भेत ततो भिन्नं चेज्जगद्भासते तदाद्वयवादखण्डना अभिन्नं चेज्जगत्प्रकाशत इति कथं वाचोयुक्तिः — इति दृष्टान्तद्वारेण तद्भेदाभेदरूपं तत्त्वमुपदर्शयनेतत्समर्थनायाह

दर्पणबिम्बे यद्वन्नगरग्रामादि चित्रमविभागि।
भाति विभागेनैव च परस्परं दर्पणादपि च॥१२॥

विमलतमपरमभैरवबोधात्तद्वद्विभागशून्यमपि।
अन्योन्यं च ततोऽपि च विभक्तमाभाति जगदेतत्॥१३॥

यथा निर्मले मुकुरान्तराले नगरग्रामपुरप्राकाराट्टस्थलनदनदीज्वलनवृक्षपर्वतपशुपक्षिस्त्रीपुरुषादिकं सर्वं प्रतिबिम्बतया चित्रं स्वालक्षण्येन नानारूपं भासत अविभागि दर्पणादविभक्तं सद्भाति तदभेदेनैवान्तर् आकारं समर्पयति तत्राभेदेन भासमानमपि भाति विभागेनैव च परस्परमित्यन्योन्यस्वालक्षण्येन घटात्पटो भिन्नः पटाद्घटः — इति विभक्ततया स्फुरति। तदन्तर्गता हि भावा एव पृथक्त्वेन परामृश्यन्ते न पुनस्तं दर्पणं त्यक्त्वा पृथक्किञ्चिदुपलभ्यते किन्तु दर्पणसामरस्येन स्थितमपि सर्वतो भिन्नं जगत्प्रतीयते। एवमपि घटादिप्रतिबिम्बेन दर्पणस्तर्ह्यन्तर्हितः स्यात् — इत्येतन्न — इत्याह दर्पणादपि चेति। न केवलं स्वयं भावा दर्पणान्तर्गता अपि भिन्नाः प्रकाशन्ते यावद्दर्पणादपि व्यतिरिच्यन्ते यतो दर्पणस्तत्तत्प्रतिबिम्बमयोऽपि तेभ्यः प्रतिबिम्बेभ्यः समुत्तीर्णस्वरूपतया चकास्ति न पुनस्तन्मयः सम्पद्यते येन च न दर्पण इति प्रतीतिः स्यात्। सर्वस्य पुनस्तत्तत्प्रतिबिम्बग्रहणेऽपि दर्पणोऽयमित्यबाधिता प्रतिपत्तिः। नापि घटादिः दर्पणं विशिनष्टि येनायं घटदर्पणोऽयं पटदर्पण इति स्वस्वरूपताहानिरत्र जायते। देशकृतः कालकृतो वा भेदो न तत्र स्वभावविप्रलोपाय भवति। तस्मात्तत्तत्प्रतिबिम्बसहिष्णुः सन् स्वात्मनि दर्पणो दर्पण एव — इति न काचित्प्रतिबिम्बवादक्षतिः। अथोच्यते भ्रान्तिरेषा — यदुत दर्पणे हस्ती — इति परामृश्यते न तु पुनर्दर्पणे स कश्चिद्विद्यते तथात्वेनार्थक्रियाविरहाद्भ्रान्त्यैवैष निश्चयः — इति। एतावता प्रतिबिम्बवादेन दृष्टान्तस्तावत्सिद्धः। भ्रान्तेस्तु स्वरूपं समनन्तरं निरूप्यते। तद्वत्तथैव दर्पणनगरादिप्रतिबिम्बदृष्टान्तेन विमलतमपरमभैरवबोधादतिशयेन विगलितकालिकात्पूर्णानन्दोद्रिक्तात्प्रकाशाज्जगद्विश्वं विभागशून्यमपि दर्पणप्रतिबिम्बवत्ततः प्रकाशादविभक्तमपि परस्परं च विभक्तत्वेन ग्राह्यग्राहकापेक्षया नानारूपं प्रथते ततोऽपि चेति बोधादप्युन्मग्नमिवाभाति यतो बोधस्तद्रूपतयापि प्रथमानस्ततः समुत्तीर्णः प्रथते यथा प्रतिबिम्बेभ्यो दर्पणे। एवमपि विश्वभावप्रतिबिम्बसहिष्णुः प्रकाशो विश्वभावेभ्यः समुत्तीर्णः सर्वस्यानुभवितृतया स्वस्वरूपेण प्रथते। भावगतोऽपि देशकालाकारभेदः केवलमत्र प्रकाशते दर्पणवन्न पुनः स्वं रूपं सम्भिनत्ति। अत एवैकानेकस्वरूपोऽपि बोध एक एव बोधाभ्युपगतचित्रज्ञानवत्। किन्तु दर्पणप्रकाशात्सचमत्कारस्य चित्प्रकाशस्येयान् विशेषः — यद्दर्पणे स्वच्छतामात्रसनाथे भिन्नं बाह्यमेव नगरादि प्रतिबिम्बत्वेनाभिमतं भाति न तु स्वनिर्मितमतो दर्पणेऽयं हस्तीति यो निश्चयः स भ्रान्तः स्यात्प्रकाशः पुनः स्वचमत्कारसारः स्वेच्छया स्वात्मभित्तावभेदेन परामृशन् स्वसंविदुपादानमेव विश्वमाभासयति। विश्वस्याभासनमेव निर्मातृत्वं भगवतः — इति परामर्श एव प्रकाशस्य जडाद्दर्पणप्रकाशादेर्वैलक्षण्यापादकं मुख्यं रूपम् — इति। एतदेव ग्रन्थकृता विवृतिविमर्शिन्यामुक्तम्

अन्तर्विभाति सकलं जगदात्मनीह यद्वद्विचित्ररचना मकुरान्तराले।
बोधः पुनर्निजविमर्शनसारयुक्त्या विश्वं परामृशति नो मकुरस्तथा तु॥

इति। इत्थं परमेश्वरापेक्षया स्वाङ्गनिर्मिते भावराशौ न काचिद् भेदभ्रान्तिर्मायाप्रमात्रपेक्षया तु योऽयं भेदावभास एषा पूर्णत्वाख्यातिरूपा भ्रान्तिः — पूर्णस्याद्वयात्मनो रूपस्याख्यानमप्रथा पूर्णं न भासते किन्त्वपूर्णं द्वयरूपं भासते भेद एव प्रतीयते — इति यावत्। तस्मान्निरवद्योऽयं प्रतिबिम्बवादः॥१३॥

इत्थं परतत्त्वस्वरूपनिरूपणपूर्वं प्रकाशाभेदेन जगतः षट्त्रिंशत्तत्त्वात्मकस्य स्थितिं विधाय पुनरप्येतस्य समुत्पत्तिक्रमेण प्रतितत्त्वं स्वरूपं कारिकाभिः प्रतिपादयति

शिवशक्तिसदाशिवतामीश्वरविद्यामयीं च तत्त्वदशाम्।
शक्तीनां पञ्चानां विभक्तभावेन भासयति॥१४॥

योऽयं परमशिवः परतत्त्वनिरूपणया समनन्तरप्रतिपादितस्वरूपः स्वस्वरूपरूपा याः शक्तयश्चिन्निर्वृतीच्छाज्ञानक्रियाख्याः पञ्च अनन्तशक्तिव्रातहेतुभूतास्तासामेव पञ्चानां शक्तीनां भिन्नत्वेनातद्व्यावृत्त्येमां तत्त्वदशां पञ्चसङ्ख्यावच्छिन्नामेव भासयति स्वालक्षण्येन प्रकटयति — इत्यर्थः। कीदृशीं ताम् — इत्याह शिव इत्यादि। शिवश्च शक्तिश्च सदाशिवश्च तेषां भावो यस्याः सा तथोक्ता तां तथेश्वरविद्ये प्रकृतिर्यस्यां सा तथा — इति। अत्र प्रतितत्त्वं स्वरूपं प्रदर्श्यते। तथा हि — सर्वप्रमातॄणामन्तः पूर्णाहन्ताचमत्कारमयं सर्वतत्त्वोत्तीर्णं महाप्रकाशवपुर्यच्चैतन्यमेतदेव शिवतत्त्वम्। अत्र तत्त्वनिरूपणमुपदेश्यजनापेक्षया — इति। तस्यैव भगवतश्चिद्रूपस्यानन्दरूपा विश्वं भवामीति परामृशतो विश्वभावस्वभावमयी संविदेव किञ्चिदुच्छूनतारूपा सर्वभावानां बीजभूमिरियं शक्त्यवस्था। एषैव विश्वगतसृष्टिसंहारोपचारात्कृशपूर्णोभयरूपाप्येकैव सर्वरहस्यनयेषु गीयते। पुनरप्यत्रैव विश्वसमुत्पत्तिबीजभूमौ महाशून्यातिशून्याख्यायां महेशस्याहमिदमित्यभेदेन पूर्णाहन्तामयो यश्चमत्कारो ज्ञानप्राधान्यात्क्रियाभागस्याहन्ताविश्रान्तेः सेयं सदाशिवदशा। अत्र मन्त्रमहेश्वराः प्रमातारस्तिष्ठन्ति। तथात्रैवाहमिदमित्यभेदेनाहन्तेदन्तयोः समधृततुलापुटन्यायेन यः स्वात्मचमत्कारः सैषा तस्येश्वरावस्था। अत्रापि मन्त्रेश्वराः प्रमातारः। अत्रापीदन्ताप्राधान्येनाहन्तागुणीकारेण योऽहमहमिदमिदमित्येवंरूपश्चमत्कारः सद्योजातबालस्येव शिरोऽङ्गुलीनिर्देश्य एतदेव बोधसारत्वाद्भगवतः शुद्धविद्यातत्त्वम्। अत्र विद्येश्वरैः सह सप्तकोट्यस्तु मन्त्राणां वाचकतयानुग्रहस्वभावात्पशूनुद्धर्तुं वाच्यान् मन्त्रमहेश्वरमन्त्रेश्वरान् प्रति अवतिष्ठन्ते। अत्र विद्यातत्त्वे विद्येश्वरप्रमातॄणां बोधरूपत्वाविशेषेऽपि या भेदप्रथा सा मायाशक्तिकृतैव — इत्यागमेषु गीयते

मायोपरि महामाया... ।

इति। येन तत्रस्था मन्त्रा महामायानुप्रवेशादणवः — इत्युच्यन्ते। मायातत्त्वोपरि शुद्धविद्याधश्च विज्ञानाकलाः प्रमातार आणवमलभाजनम्। एवमेकमेवेदं शिवस्वरूपं तुर्यातीतमपि तुर्यरूपतया तत्त्वपञ्चकतया गीयते। तस्मादेक एवैष स्वतन्त्रः कर्ता प्रकाशते यस्याहमिदमिति सदाशिवेश्वरभूमौ यः प्रकाश एतदेव शुद्धवेदनरूपं करणं वक्ष्यमाणो मायातत्त्वादिधरान्तस्तत्त्वसर्गश्च कार्यम् — इत्येव कर्तृकरणक्रियारूप एक एव स्वात्ममहेश्वराख्यः परमप्रमाता विजृम्भते॥१४॥

मायातत्त्वस्वरूपमाह

परमं यत् स्वातन्त्र्यं दुर्घटसम्पादनं महेशस्य।
देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत्॥१५॥

परममनन्यापेक्षं यत् परमेशितुः स्वातन्त्र्यं विश्वनिर्मातृत्वं सैवेयं मायाख्या शक्तिस्तस्य शक्तिमतः। मीयते — परिच्छिद्यते धरान्तः प्रमातृप्रमेयप्रपञ्चो यया सा माया विश्वमोहकतया वा माया। एषा देवस्य क्रीडाशीलस्य सम्बन्धिनी — इति कृत्वा देवी न पुनर्ब्रह्मवादिनामिव व्यतिरिक्ता काचिन्मायोपपद्यते — इति। कीदृशं तत् स्वातन्त्र्यं दुर्घटसम्पादनमिति। दुःखेन घटयितुं शक्यम् — इति दुर्घटस्य कार्यस्य प्रमातृप्रमेयरूपस्य सम्पादनं प्राप्तिप्रापकम्। एषैव माया स्वेच्छया पशुभावमापन्नस्य शिवस्य स्वात्मावरणं स्वरूपगोपनाख्यमाणवादिमलत्रितयम्॥१५॥

top


To be continued


 Further Information

Gabriel Pradīpaka

Este documento foi concebido por Gabriel Pradīpaka, um dos dois fundadores deste site, e guru espiritual versado em idioma Sânscrito e filosofia Trika.

Para maior informação sobre Sânscrito, Yoga e Filosofia Indiana; ou se você quiser fazer um comentário, perguntar algo ou corrigir algum erro, sinta-se à vontade para enviar um e-mail: Este é nosso endereço de e-mail.