Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrasāra (Tantrasara): Capítulo 4

Śāktopāyaprakāśanam - Explicando el medio de Śakti [Śāktopāya]


 Introducción

Éste es el cuarto capítulo (llamado Śāktopāyaprakāśanam).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un resumen del Tantrāloka. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira.

Este tratado cuyo nombre es Tantrasāra es una enciclopedia resumida del Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultándole cosas al lector, sino porque está a veces ocultándole y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrasāra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 4

तन्त्रसारः
चतुर्थमाह्निकम्

तत्र यदा विकल्पं क्रमेण संस्कुरुते समनन्तरोक्तस्वरूपप्रवेशाय तदा भावनाक्रमस्य सत्तर्कसदागमसद्गुरूपदेशपूर्वकस्यास्त्युपयोगः। तथा हि - विकल्पबलादेव जन्तवो बद्धमात्मानमभिमन्यन्ते सोऽभिमानः संसारप्रतिबन्धहेतुरतः प्रतिद्वन्द्विरूपो विकल्प उदितः संसारहेतुं विकल्पं दलयतीत्यभ्युदयहेतुः। स चैवंरूपः समस्तेभ्यः परिच्छिन्नस्वभावेभ्यः शिवान्तेभ्यस्तत्त्वेभ्यो यद् उत्तीर्णमपरिच्छिन्नसंविन्मात्ररूपं तदेव च परमार्थस्तद् वस्तुव्यवस्थास्थानं तद् विश्वस्यौजस्तेन प्राणिति विश्वं तदेव चाहमतो विश्वोत्तीर्णो विश्वात्मा चाहमिति। स चायं मायान्धानां नोत्पद्यते सत्तर्कादीनामभावात्। वैष्णवाद्या हि तावन्मात्र एवागमे रागतत्त्वेन नियमिता इति नोर्ध्वदर्शनेऽपि तदुन्मुखतां भजन्ते ततः सत्तर्कसदागमसद्गुरूपदेशद्वेषिण एव। यथोक्तं पारमेश्वरे

वैष्णवाद्याः समस्तास्ते विद्यारागेण रञ्जिताः।
न विन्दन्ति परं तत्त्वं सर्वज्ञज्ञानवर्जिताः॥

इति। तस्माच्छाम्भवदृड्ःअशक्तिपाताविद्धा एव सदागमादिक्रमेण विकल्पं संस्कृत्य परं स्वरूपं प्रविशन्ति। नन्वित्थं परं तत्त्वं विकल्प्यरूपं स्यान्मैवम् - विकल्पस्य द्वैताधिवासभङ्गमात्रे चरितार्थत्वात्परं तत्त्वं तु सर्वत्र सर्वरूपतया स्वप्रकाशमेवेति न तत्र विकल्पः कस्यैचिदुपक्रियायै खण्डनायै वा। तत्रातिदृढशक्तिपाताविद्धस्य स्वयमेव सांसिद्धिकतया सत्तर्क उदेति योऽसौ देवीभिर्दीक्षित इत्युच्यते। अन्यस्यागमक्रमेणेत्यादि सविस्तरं शक्तिपातप्रकाशने वक्ष्यामः। किं तु गुरोरागमनिरूपणे व्यापार आगमस्य च निःशङ्कसजातीयतत्प्रबन्धप्रसवनिबन्धनसमुचितविकल्पोदये व्यापारस्तथाविधविकल्पप्रबन्ध एव सत्तर्क इत्युक्तः स एव च भावना भण्यतेऽस्फुटत्वाद्भूतमप्यर्थमभूतमिव स्फुटत्वापादनेन भाव्यते ययेति। न चात्र सत्तर्काच्छुद्धविद्याप्रकाशरूपादृतेऽन्यद् योगाङ्गं साक्षादुपायः - तपःप्रभृतेर्नियमवर्गस्याहिंसादेश्च यमप्रकारस्य पूरकादेः प्राणायामवर्गस्य वेद्यमात्रनिष्ठत्वेन क इव संविदि व्यापारः। प्रत्याहारोऽपि करणभूमिमेव सातिशयां कुर्याद्ध्यानधारणासमाधयोऽपि यथोत्तरमभ्यासक्रमेण निर्वर्त्यमाना ध्येयवस्तुतादात्म्यं ध्यातुर्वितरेयुः। अभ्यासश्च परे तत्त्वे शिवात्मनि स्वस्वभावे न सम्भवत्येव। संविद्रूढस्य प्राणबुद्धिदेहनिष्ठीकरणरूपो ह्यभ्यासः - भारोद्वहनशास्त्रार्थबोधनृत्ताभ्यासवत्संविद्रूपे तु न किञ्चिदादातव्यं नापसरणीयमिति कथमभ्यासः। किं तर्केणापीति चेदुक्तमत्र द्वैताधिवासनिरासप्रकार एवायं न त्वन्यत्किञ्चिदिति। लौकिकेऽपि वाभ्यासे चिदात्मत्वेन सर्वरूपस्य तस्य तस्य देहादेरभिमतरूपताप्रकटीकरणं तदितररूपन्यग्भावनं चेत्येष एवाभ्यासार्थः। परतत्त्वे तु न किञ्चिदपास्यमित्युक्तम्। द्वैताधिवासोऽपि नाम न कश्चन पृथग् वस्तुभूतोऽपि तु स्वरूपाख्यातिमात्रं तदतो द्वैतापासनं विकल्पेन क्रियत इत्युक्तेः। अयं परमार्थः - स्वरूपं प्रकाशमानमख्यातिरूपत्वं स्वयं स्वातन्त्र्याद्गृहीतं क्रमेण प्रोज्झ्य विकासोन्मुखमथ विकसदथ विकसितमित्यनेन क्रमेण प्रकाशते तथा प्रकाशनमपि परमेश्वरस्य स्वरूपमेव तस्मान्नात्र योगाङ्गानि साक्षादुपायः। तर्कं त्वनुगृह्णीयुरपि सत्तर्क एव साक्षात्तत्रोपायः स एव च शुद्धविद्या स च बहुप्रकारतया संस्कृतो भवति तद्यथा - यागो होमो जपो व्रतं योग इति तत्र भावानां सर्वेषां परमेश्वर एव स्थितिर्नान्यद्व्यतिरिक्तमस्तीति विकल्परूढिसिद्धये परमेश्वर एव सर्वभावार्पणं यागः स च हृद्यत्वाद्ये संविदनुप्रवेशं स्वयमेव भजन्ते तेषां सुशकं परमेश्वरेऽर्पणमित्यभिप्रायेण हृद्यानां कुसुमतर्पणगन्धादीनां बहिरुपयोग उक्तः। सर्वे भावाः परमेश्वरतेजोमया इति रूढविकल्पप्राप्त्यै परमेशसंविदनलतेजसि समस्तभावग्रासरसिकताभिमते तत्तेजोमात्रावशेषत्वसहसमस्तभावविलापनं होमः। तथोभयात्मकपरामर्शोदयार्थं बाह्याभ्यन्तरादिप्रमेयरूपभिन्नभावानपेक्षयैवैवंविधं तत् परं तत्त्वं स्वस्वभावभूतमित्यन्तः परामर्शनं जपः। सर्वत्र सर्वदा निरुपायपरमेश्वराभिमानलाभाय परमेश्वरसमताभिमानेन देहस्यापि घटादेरप्यवलोकनं व्रतम्। यथोक्तं श्रीनन्दिशिखायाम्

... सर्वसाम्यं परं व्रतम्॥

इति। इत्थं विचित्रैः शुद्धविद्यांशरूपैः विकल्पैर्यद् अनपेक्षितविकल्पं स्वाभाविकं परमार्थतत्त्वं प्रकाशते तस्यैव सनातनतथाविधप्रकाशमात्रतारूढये तत्स्वरूपानुसन्धानात्मा विकल्पविशेषो योगः। तत्र परमेश्वरः पूर्णसंवित्स्वभावः पूर्णतैवास्य शक्तिः - कुलं सामर्थ्यमूर्मिर्हृदयं सारं स्पन्दो विभूतिस्त्रीशिका काली कर्षणी चण्डी वाणी भोगो दृग् नित्या इत्यादिभिरागमभाषाभिस्तत्तदन्वर्थप्रवृत्ताभिरभिधीयते तेन तेन रूपेण ध्यायिनां हृद्यास्तामिति। सा च समग्रशक्तितादर्शनेन पूर्णतासंवित्प्रकाशते। शक्तयश्चास्यासङ्ख्येयाः। किं बहुना यद् विश्वं ता अस्य शक्तयस्ताः कथमुपदेष्टुं शक्या इति। तिसृषु तावद्विश्वं समाप्यते ययेदं शिवादिधरण्यन्तमविकल्प्यसंविन्मात्ररूपतया बिभर्ति च पश्यति च भासयति च परमेश्वरः सास्य श्रीपराशक्तिः। यया च दर्पणहस्त्यादिवद्भेदाभेदाभ्यां सास्य श्रीपरापराशक्तिः। यया परस्परविविक्तात्मना भेदेनैव सास्य श्रीमदपराशक्तिः। एतत् त्रिविधं यया धारणमात्मन्येव क्रोडीकारेणानुसन्धानात्मना ग्रसते सास्य भगवती श्रीपरैव श्रीमन्मातृसद्भावकालकर्षिण्यादिशब्दान्तरनिरुक्ता। ता एताश्चतस्रः शक्तयः स्वातन्त्र्यात्प्रत्येकं त्रिधैव वर्तन्ते। सृष्टौ स्थितौ संहारे चेति द्वादश भवन्ति। तथा हि - १ संवित्पूर्वमन्तरेव भावं कलयति २ ततो बहिरपि स्फुटतया कलयति ३ तत्रैव रक्तिमयतां गृहीत्वा ततस्तमेव भावमन्तरुपसञ्जिहीर्षया कलयति ४ ततश्च तदुपसंहारविघ्नभूतां शङ्कां निर्मिणोति च ग्रसते च ५ ग्रस्तशङ्कांशं भावभागमात्मन्युपसंहारेण कलयति ६ तत उपसंहर्तृत्वं ममेदं रूपमित्यपि स्वभावमेव कलयति ७ तत उपसंहर्तृस्वभावकलने कस्यचिद्भावस्य वासनात्मनावस्थितिं कस्यचित्तु संविन्मात्रावशेषतां कलयति ८ ततः स्वरूपकलनानान्तरीयकत्वेनैव करणचक्रं कलयति ९ ततः करणेश्वरमपि कलयति १० ततः कल्पितं मायीयं प्रमातृरूपमपि कलयति ११ सङ्कोचत्यागोन्मुखविकासग्रहणरसिकमपि प्रमातारं कलयति १२ ततो विकसितमपि रूपं कलयतीत्येता द्वादश भगवत्यः संविदः प्रमातॄनेकं वाप्युद्दिश्य युगपत्क्रमेण द्विशस्त्रिश इत्यादिस्थित्याप्युदयभागिन्यश्चक्रवदावर्तमाना बहिरपि मासकलाराश्यादिक्रमेणान्ततो वा घटपटादिक्रमेणापि भासमानाश्चक्रेश्वरस्य स्वातन्त्र्यं पुष्णत्यः श्रीकालीशब्दवाच्याः। कलनं च - गतिः क्षेपो ज्ञानं गणनं भोगीकरणं शब्दनं स्वात्मलयीकरणं च। यदाहुः श्रीभूतिराजगुरवः

क्षेपाज्ज्ञानाच्च काली कलनवशतयाथ...॥

इति। एष चार्थस्तत्र तत्र मद्विरचिते विवरणे प्रकरणस्तोत्रादौ वितत्य वीक्ष्यः। नातिरहस्यमेकत्र ख्याप्यं न च सर्वथा गोप्यमिति ह्यस्मद्गुरवः। तदेवम् यदुक्तं यागहोमादि तदेवंविधे महेश्वर एव मन्तव्यम्। सर्वे हि हेयमेवोपादेयभूमिरूपं विष्णुतः प्रभृति शिवान्तं परमशिवतया पश्यन्ति तच्च मिथ्यादर्शनमवश्यत्याज्यमनुत्तरयोगिभिरिति तदर्थमेव विद्याधिपतेरनुभवस्तोत्रे महान्संरम्भ एवंविधे यागादौ योगान्ते च पञ्चके प्रत्येकं बहुप्रकारं निरूढिर्यथा यथा भवति तथैवाचरेन्न तु भक्ष्याभक्ष्यशुद्ध्यशुद्ध्यादिविवेचनया वस्तुधर्मोज्झितया कल्पनामात्रसारया स्वात्मा खेदनीय इत्युक्तं श्रीपूर्वादौ न हि शुद्धिर्वस्तुनो रूपं नीलत्ववदन्यत्र तस्यैवाशुद्धिचोदनाद्दानस्येव दीक्षितत्वे चोदनातस्तस्य तत् तत्राशुद्धमिति चेच्चोदनान्तरेऽपि तुल्यं चोदनान्तरमसत् - तद्बाधितत्वादिति चेन्न शिवचोदनाया एव बाधकत्वं युक्तिसिद्धं सर्वज्ञानोत्तराद्यनन्तागमसिद्धं चेति वक्ष्यामः। तस्माद्वैदिकात्प्रभृति पारमेश्वरसिद्धान्ततन्त्रकुलोच्छुष्मादिशास्त्रोक्तोऽपि यो नियमो विधिर्वा निषेधो वा सोऽत्र यावदकिञ्चित्कर एवेति सिद्धम्। तथैव चोक्तं श्रीपूर्वादौ वितत्य तन्त्रालोकादन्वेष्यम्।

यो निश्चयः पशुजनस्य जडोऽस्मि कर्मसम्पाशितोऽस्मि मलिनोऽस्मि परेरितोऽस्मि।
इत्येतदन्यदृढनिश्चयलाभसिद्ध्या सद्यः पतिर्भवति विश्ववपुश्चिदात्मा॥

यथा यथा निश्चय ईदृगाप्यते तथावधेयं परयोगिना सदा।
न वस्तुयाथात्म्यविहीनया दृशा विशङ्कितव्यं शिशुदेशनागणैः॥

Tantrasāraḥ
Caturthamāhnikam

Tatra yadā vikalpaṁ krameṇa saṁskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasyāstyupayogaḥ| Tathā hi - Vikalpabalādeva jantavo baddhamātmānamabhimanyante so'bhimānaḥ saṁsārapratibandhaheturataḥ pratidvandvirūpo vikalpa uditaḥ saṁsārahetuṁ vikalpaṁ dalayatītyabhyudayahetuḥ| Sa caivaṁrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyastattvebhyo yad uttīrṇamaparicchinnasaṁvinmātrarūpaṁ tadeva ca paramārthastad vastuvyavasthāsthānaṁ tad viśvasyaujastena prāṇiti viśvaṁ tadeva cāhamato viśvottīrṇo viśvātmā cāhamiti| Sa cāyaṁ māyāndhānāṁ notpadyate sattarkādīnāmabhāvāt| Vaiṣṇavādyā hi tāvanmātra evāgame rāgatattvena niyamitā iti nordhvadarśane'pi tadunmukhatāṁ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva| Yathoktaṁ pārameśvare

Vaiṣṇavādyāḥ samastāste vidyārāgeṇa rañjitāḥ|
Na vindanti paraṁ tattvaṁ sarvajñajñānavarjitāḥ||

iti| Tasmācchāmbhavadṛḍḥaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṁ saṁskṛtya paraṁ svarūpaṁ praviśanti| Nanvitthaṁ paraṁ tattvaṁ vikalpyarūpaṁ syānmaivam - Vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvātparaṁ tattvaṁ tu sarvatra sarvarūpatayā svaprakāśameveti na tatra vikalpaḥ kasyaicidupakriyāyai khaṇḍanāyai vā| Tatrātidṛḍhaśaktipātāviddhasya svayameva sāṁsiddhikatayā sattarka udeti yo'sau devībhirdīkṣita ityucyate| Anyasyāgamakrameṇetyādi savistaraṁ śaktipātaprakāśane vakṣyāmaḥ| Kiṁ tu gurorāgamanirūpaṇe vyāpāra āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpārastathāvidhavikalpaprabandha eva sattarka ityuktaḥ sa eva ca bhāvanā bhaṇyate'sphuṭatvādbhūtamapyarthamabhūtamiva sphuṭatvāpādanena bhāvyate yayeti| Na cātra sattarkācchuddhavidyāprakāśarūpādṛte'nyad yogāṅgaṁ sākṣādupāyaḥ - Tapaḥprabhṛterniyamavargasyāhiṁsādeśca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṁvidi vyāpāraḥ| Pratyāhāro'pi karaṇabhūmimeva sātiśayāṁ kuryāddhyānadhāraṇāsamādhayo'pi yathottaramabhyāsakrameṇa nirvartyamānā dhyeyavastutādātmyaṁ dhyāturvitareyuḥ| Abhyāsaśca pare tattve śivātmani svasvabhāve na sambhavatyeva| Saṁvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hyabhyāsaḥ - Bhārodvahanaśāstrārthabodhanṛttābhyāsavatsaṁvidrūpe tu na kiñcidādātavyaṁ nāpasaraṇīyamiti kathamabhyāsaḥ| Kiṁ tarkeṇāpīti ceduktamatra dvaitādhivāsanirāsaprakāra evāyaṁ na tvanyatkiñciditi| Laukike'pi vābhyāse cidātmatvena sarvarūpasya tasya tasya dehāderabhimatarūpatāprakaṭīkaraṇaṁ taditararūpanyagbhāvanaṁ cetyeṣa evābhyāsārthaḥ| Paratattve tu na kiñcidapāsyamityuktam| Dvaitādhivāso'pi nāma na kaścana pṛthag vastubhūto'pi tu svarūpākhyātimātraṁ tadato dvaitāpāsanaṁ vikalpena kriyata ityukteḥ| Ayaṁ paramārthaḥ - Svarūpaṁ prakāśamānamakhyātirūpatvaṁ svayaṁ svātantryādgṛhītaṁ krameṇa projjhya vikāsonmukhamatha vikasadatha vikasitamityanena krameṇa prakāśate tathā prakāśanamapi parameśvarasya svarūpameva tasmānnātra yogāṅgāni sākṣādupāyaḥ| Tarkaṁ tvanugṛhṇīyurapi sattarka eva sākṣāttatropāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṁskṛto bhavati tadyathā - Yāgo homo japo vrataṁ yoga iti tatra bhāvānāṁ sarveṣāṁ parameśvara eva sthitirnānyadvyatiriktamastīti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṁ yāgaḥ sa ca hṛdyatvādye saṁvidanupraveśaṁ svayameva bhajante teṣāṁ suśakaṁ parameśvare'rpaṇamityabhiprāyeṇa hṛdyānāṁ kusumatarpaṇagandhādīnāṁ bahirupayoga uktaḥ| Sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṁvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṁ homaḥ| Tathobhayātmakaparāmarśodayārthaṁ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaivaivaṁvidhaṁ tat paraṁ tattvaṁ svasvabhāvabhūtamityantaḥ parāmarśanaṁ japaḥ| Sarvatra sarvadā nirupāyaparameśvarābhimānalābhāya parameśvarasamatābhimānena dehasyāpi ghaṭāderapyavalokanaṁ vratam| Yathoktaṁ śrīnandiśikhāyām

... sarvasāmyaṁ paraṁ vratam||

iti| Itthaṁ vicitraiḥ śuddhavidyāṁśarūpaiḥ vikalpairyad anapekṣitavikalpaṁ svābhāvikaṁ paramārthatattvaṁ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusandhānātmā vikalpaviśeṣo yogaḥ| Tatra parameśvaraḥ pūrṇasaṁvitsvabhāvaḥ pūrṇataivāsya śaktiḥ - Kulaṁ sāmarthyamūrmirhṛdayaṁ sāraṁ spando vibhūtistrīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛg nityā ityādibhirāgamabhāṣābhistattadanvarthapravṛttābhirabhidhīyate tena tena rūpeṇa dhyāyināṁ hṛdyāstāmiti| Sā ca samagraśaktitādarśanena pūrṇatāsaṁvitprakāśate| Śaktayaścāsyāsaṅkhyeyāḥ| Kiṁ bahunā yad viśvaṁ tā asya śaktayastāḥ kathamupadeṣṭuṁ śakyā iti| Tisṛṣu tāvadviśvaṁ samāpyate yayedaṁ śivādidharaṇyantamavikalpyasaṁvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sāsya śrīparāśaktiḥ| Yayā ca darpaṇahastyādivadbhedābhedābhyāṁ sāsya śrīparāparāśaktiḥ| Yayā parasparaviviktātmanā bhedenaiva sāsya śrīmadaparāśaktiḥ| Etat trividhaṁ yayā dhāraṇamātmanyeva kroḍīkāreṇānusandhānātmanā grasate sāsya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā| Tā etāścatasraḥ śaktayaḥ svātantryātpratyekaṁ tridhaiva vartante| Sṛṣṭau sthitau saṁhāre ceti dvādaśa bhavanti| Tathā hi - 1 saṁvitpūrvamantareva bhāvaṁ kalayati 2 tato bahirapi sphuṭatayā kalayati 3 tatraiva raktimayatāṁ gṛhītvā tatastameva bhāvamantarupasañjihīrṣayā kalayati 4 tataśca tadupasaṁhāravighnabhūtāṁ śaṅkāṁ nirmiṇoti ca grasate ca 5 grastaśaṅkāṁśaṁ bhāvabhāgamātmanyupasaṁhāreṇa kalayati 6 tata upasaṁhartṛtvaṁ mamedaṁ rūpamityapi svabhāvameva kalayati 7 tata upasaṁhartṛsvabhāvakalane kasyacidbhāvasya vāsanātmanāvasthitiṁ kasyacittu saṁvinmātrāvaśeṣatāṁ kalayati 8 tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṁ kalayati 9 tataḥ karaṇeśvaramapi kalayati 10 tataḥ kalpitaṁ māyīyaṁ pramātṛrūpamapi kalayati 11 saṅkocatyāgonmukhavikāsagrahaṇarasikamapi pramātāraṁ kalayati 12 tato vikasitamapi rūpaṁ kalayatītyetā dvādaśa bhagavatyaḥ saṁvidaḥ pramātṝnekaṁ vāpyuddiśya yugapatkrameṇa dviśastriśa ityādisthityāpyudayabhāginyaścakravadāvartamānā bahirapi māsakalārāśyādikrameṇāntato vā ghaṭapaṭādikrameṇāpi bhāsamānāścakreśvarasya svātantryaṁ puṣṇatyaḥ śrīkālīśabdavācyāḥ| Kalanaṁ ca - Gatiḥ kṣepo jñānaṁ gaṇanaṁ bhogīkaraṇaṁ śabdanaṁ svātmalayīkaraṇaṁ ca| Yadāhuḥ śrībhūtirājaguravaḥ

Kṣepājjñānācca kālī kalanavaśatayātha...||

iti| Eṣa cārthastatra tatra madviracite vivaraṇe prakaraṇastotrādau vitatya vīkṣyaḥ| Nātirahasyamekatra khyāpyaṁ na ca sarvathā gopyamiti hyasmadguravaḥ| Tadevam yaduktaṁ yāgahomādi tadevaṁvidhe maheśvara eva mantavyam| Sarve hi heyamevopādeyabhūmirūpaṁ viṣṇutaḥ prabhṛti śivāntaṁ paramaśivatayā paśyanti tacca mithyādarśanamavaśyatyājyamanuttarayogibhiriti tadarthameva vidyādhipateranubhavastotre mahānsaṁrambha evaṁvidhe yāgādau yogānte ca pañcake pratyekaṁ bahuprakāraṁ nirūḍhiryathā yathā bhavati tathaivācarenna tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya ityuktaṁ śrīpūrvādau na hi śuddhirvastuno rūpaṁ nīlatvavadanyatra tasyaivāśuddhicodanāddānasyeva dīkṣitatve codanātastasya tat tatrāśuddhamiti ceccodanāntare'pi tulyaṁ codanāntaramasat - Tadbādhitatvāditi cenna śivacodanāyā eva bādhakatvaṁ yuktisiddhaṁ sarvajñānottarādyanantāgamasiddhaṁ ceti vakṣyāmaḥ| Tasmādvaidikātprabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto'pi yo niyamo vidhirvā niṣedho vā so'tra yāvadakiñcitkara eveti siddham| Tathaiva coktaṁ śrīpūrvādau vitatya tantrālokādanveṣyam|

Yo niścayaḥ paśujanasya jaḍo'smi karmasampāśito'smi malino'smi parerito'smi|
Ityetadanyadṛḍhaniścayalābhasiddhyā sadyaḥ patirbhavati viśvavapuścidātmā||

Yathā yathā niścaya īdṛgāpyate tathāvadheyaṁ parayoginā sadā|
Na vastuyāthātmyavihīnayā dṛśā viśaṅkitavyaṁ śiśudeśanāgaṇaiḥ||

La Esencia del Tantra (tantra-sāraḥ)
Cuarto (caturtham) capítulo (āhnikam)

Ahí (tatra), cuando (yadā) él --el yogī-- gradualmente refina (krameṇa saṁskurute) (sus) pensamiento(s) (vikalpam) para ingresar en (su propia) naturaleza esencial tal como se la describió inmediatamente antes --en el capítulo anterior-- (samanantara-ukta-sva-rūpa-praveśāya), entonces (tadā) existe (asti) la aplicación (upayogaḥ) del método de contemplación (bhāvanā-kramasya) precedido por Razonamiento correcto, (el estudio de) escrituras reveladas genuinas y las enseñanzas de un Guru verdadero (sat-tarka-sat-āgama-sat-guru-upadeśa-pūrvakasya)|

Por ejemplo (tathā hi): Los seres limitados --lit. insectos-- (jantavaḥ) (erróneamente) piensan (abhimanyante) que están atados (baddham ātmānam) por la fuerza de los pensamientos (vikalpa-balāt eva). Una firme (y correcta) concepción (saḥ abhimānaḥ) es la causa de la cesación del Saṁsāra --Transmigración llena de miseria y dolor-- (saṁsāra-pratibandha-hetuḥ). Debido a esto (atas), el pensamiento (vikalpaḥ) opuesto (pratidvandvi-rūpaḥ), (una vez) surgido (uditaḥ), despedaza (dalayati) al pensamiento (vikalpam) que es la causa del Saṁsāra (saṁsāra-hetum). Esto es causa de elevación (iti abhyudaya-hetuḥ)|

Ello (saḥ ca) es así (evaṁrūpaḥ): (Es) la Más Alta Realidad (parama-arthaḥ) Eso (tad eva ca) que es únicamente Conciencia ilimitada (aparicchinna-saṁvid-mātra-rūpam) (y) que (yad) trasciende (uttīrṇam) todos los tattva-s o categorías —de naturaleza limitada— que terminan en Śiva (samastebhyaḥ paricchinna-sva-bhāvebhyaḥ śiva-antebhyaḥ tattvebhyaḥ). Eso (tad) (es) el lugar donde las cosas están establecidas (vastu-vyavasthā-sthānam). Eso (tad) (es) la vitalidad (ojas) del universo (viśvasya). El universo (viśvam) respira (prāṇiti) por medio de Eso (tena). Y (ca) Eso (tad eva) (es) "Yo" (aham). Por esta razón (atas), "Yo (aham) (soy) tanto trascendente como inmanente (viśva-uttīrṇaḥ viśva-ātmā ca... iti)"|

Esta mismísima (convicción) (saḥ ca ayam) no brota (na utpadyate) en el caso de aquéllos cegados por Māyā (māyā-andhānām) debido a la ausencia (abhāvāt) de Razonamiento correcto, etc. (sat-tarka-ādīnām) (en ellos)|

Los vaiṣṇava-s, etc. (vaiṣṇava-ādyāḥ hi) (están) restringidos (niyamitāḥ) solamente a Āgama-s --escrituras en este contexto-- limitadas (tāvat-mātre eva āgame) por la categoría Rāga --categoría 9-- (rāga-tattvena). De esta forma (iti), aún cuando (api) sí que existen puntos de vista filosóficos superiores (ūrdhva-darśane), no están interesados en ellos --lit. no están abstraídos en ellos-- (na... tad-unmukhatām bhajante). Por esa razón (tatas), odian el Razonamiento correcto, las escrituras reveladas genuinas y las enseñanzas de un Guru verdadero (sat-tarka-sat-āgama-sat-guru-padeśa-dveṣiṇaḥ eva)|

Así se ha dicho (yathā uktam) en la escritura revelada del Señor Supremo (pārama-īśvare):

"Todos (samastāḥ) esos (te) vaiṣṇava-s, etc. (vaiṣṇava-ādyāḥ), coloreados (rañjitāḥ) por (su) apego al conocimiento limitado (vidyā-rāgeṇa) (y) carentes de conocimiento omnisciente (sarvajña-jñāna-varjitāḥ), no (na) reconocen --es decir, no experimentan-- (vindanti) el Principio (tattvam) Supremo (param... iti)"||

Por lo tanto (tasmāt), sólo (eva) los que han sido perforados por un firme descenso de Poder de Śambhu --Gracia divina-- (śāmbhava-dṛḍḥa-śakti-pāta-āviddhāḥ), tras haber refinado (saṁskṛtya) (sus) pensamiento(s) (vikalpam) a través del método (enseñado) en las escrituras reveladas genuinas, etc. (sat-āgama-ādi-krameṇa), ingresan (praviśanti) en la suprema naturaleza esencial (param sva-rūpam)|

Una duda (nanu): (Si esto es) así (ittham), ¿tendría el Principio Supremo la naturaleza de vikalpa o pensamiento (param tattvam vikalpya-rūpam syāt)? No es (mā) así (evam). (¿Por qué?) Porque vikalpa o pensamiento alcanza su objetivo (vikalpasya... carita-arthatvāt) meramente quitando el perfume de la dualidad (dvaita-adhivāsa-bhaṅga-mātre). Pero (tu) el Principio (tattvam) Supremo (param) (está) en todo lugar (sarvatra), asume todas las formas (sarva-rūpatayā) (y es) Autoluminoso (sva-prakāśam eva iti). (Por el otro lado,) con respecto a Ello --al Principio Supremo-- (tatra), vikalpa o pensamiento (vikalpaḥ) no está (na) asistiendo (upakriyāyai) ni --lit. o-- (vā) quitando (khaṇḍanāyai)|

En ese caso (tatra), el Razonamiento correcto (sat-tarkaḥ) brota (udeti) por sí mismo (svayam eva), naturalmente (sāṁsiddhikatayā), en alguien que ha sido perforado por un muy firme descenso de Poder (ati-dṛḍha-śakti-pāta-āviddhasya). Se dice (iti ucyate) que esa misma persona (yaḥ asau) ha sido iniciada (dīkṣitaḥ) por las diosas (devībhiḥ)|

En el caso de otra persona (anyasya), (el conocimiento correcto emerge) mediante el método (de estudiar) escrituras reveladas (āgama-krameṇa), etc. (iti-ādi). Hablaré (sobre ello) (vakṣyāmaḥ) en detalle (savistaram) en (el capítulo 11 llamado) "Explicando el descenso de Poder" (śakti-pāta-prakāśane)|

No obstante (kim tu), la función (vyāpāraḥ) del Guru (guroḥ) es la descripción e investigación del Āgama --escritura revelada-- (āgama-nirūpaṇe). Y (ca) la función (vyāpāraḥ) del Āgama (āgamasya) es dar nacimiento a los vikalpa-s correctos, los cuales son el origen de una ininterrumpida serie de (pensamientos) homogeneos (--lit. "de eso", o sea, de vikalpa-s o pensamientos--) desprovistos de duda (niḥśaṅka-sajātīya-tad-prabandha-prasava-nibandhana-samucita-vikalpa-udaye). Se dice que (uktaḥ) tal serie de vikalpa-s o pensamientos (tathāvidha-vikalpa-prabandhaḥ eva) (es) "Razonamiento correcto" (sat-tarkaḥ iti); y (ca) eso --el Razonamiento correcto-- (saḥ eva) se llama (bhaṇyate) contemplación (bhāvanā). A través de ella --a través de la contemplación-- (yayā iti), incluso (api) a un objeto (artham) del pasado (bhūtam)(al cual se lo percibe así) debido a (su) vaga condición (asphuṭatvā)— se lo hace volver (bhāvyate) como (iva) presente --lit. no pasado-- (abhūtam) haciéndolo claro (sphuṭatva-āpādanena) --a saber, la contemplación, haciendo claro a un objeto del pasado, lo hace volver como presente, éste es el significado--|

Y (ca) aquí (atra), aparte del (ṛte) Razonamiento correcto (sat-tarkāt) —que es la luz del Conocimiento Puro --no el quinto tattva o categoría-- (śuddha-vidyā-prakāśa-rūpāt)—, no existe ningún otro (na... anyat) miembro del Yoga (yoga-aṅgam) (que pueda servir) evidentemente (sākṣāt) (como) un medio (upāyaḥ). En el caso del grupo de niyama-s u observancias que consiste en austeridades, etc. (tapas-prabhṛteḥ niyama-vargasya), de la clase de yama-s o restricciones que consiste en no violencia, etc. (ahiṁsā-ādeḥ ca yama-prakārasya), (y) del grupo de prāṇāyāma que consiste en inhalación, etc. (pūraka-ādeḥ prāṇāyāma-vargasya), (ya que todos los cuales) están únicamente dedicados al lado objetivo --a los objetos y no al Sujeto-- (vedya-mātra-niṣṭhatvena), ¿qué (kaḥ) función (vyāpāraḥ) (podrían ellos) posiblemente (iva) (llevar a cabo) con relación a la Conciencia (saṁvidi)?|

Inclusive (api) pratyāhāra (pratyāhāraḥ) tiene un excelente desempeño (sātiśayām kuryāt) sólo (eva) en el nivel de los sentidos (karaṇa-bhūmim). Incluso (api) dhyāna, dhāraṇā y samādhi (dhyāna-dhāraṇā-samādhayaḥ), si se realizan (nirvartyamānāḥ) uno después del otro (yathā-uttaram) según el método de práctica (abhyāsakrameṇa), confieren (vitareyuḥ) identificación con el objeto de meditación (dhyeya-vastu-tādātmyam) en el meditador (dhyātuḥ)|

La práctica (abhyāsaḥ ca) no es para nada posible (na sambhavati eva) en el Principio Supremo, en Śiva que es la propia naturaleza esencial (pare tattve śiva-ātmani sva-svabhāve). Para alguien que está establecido en la Conciencia (saṁvid-rūḍhasya), (su) práctica (abhyāsaḥ) tiene que ver con el acto de colocar a la energía vital, al intelecto y al cuerpo (aquí --en la Conciencia--) (prāṇa-buddhi-deha-niṣṭhīkaraṇa-rūpaḥ) verdaderamente (hi). (Esta especial "actividad" no es) como alzar una carga, comprender el significado de una escritura (o) practicar danza (bāra-udvahana-śāstra-artha-bodha-nṛtta-abhyāsa-vat). Sin embargo (tu), en la Conciencia (saṁvid-rūpe), nada (na kiñcid) puede agregarse --lit. recibirse-- (ādātavyam) ni (na) tomarse (apasaraṇīyam iti). (Como resultado,) ¿cómo (katham) (podría) la práctica (abhyāsaḥ) (existir aquí)?|

Si (alguien preguntase:) (ced) "¿Qué (kim) (se logra) por medio del Razonamiento (correcto) (tarkeṇa api iti)?", (ya) se ha dicho (uktam) aquí --en este capítulo-- (atra) (que) ésta (ayam) —y no otra (na tu anyat kiñcid iti)(es) la manera de quitar al perfume de la dualidad (dvaita-adhivāsa-nirāsa-prakāraḥ eva)|

O (vā) incluso (api) con referencia a la práctica usual/ordinaria (laukike... abhyāse), puesto que todo es Conciencia (cit-ātmatvena sarva-rūpasya), solamente éste (eṣaḥ eva) (es) el propósito de (tal) práctica (abhyāsa-arthaḥ): "La manifestación de la forma deseada (abhimata-rūpatā-prakaṭī-karaṇam) en el caso de esto y eso (tasya tasya) —es decir, en el caso del cuerpo, etc. (deha-ādeḥ)—, y (ca) la subordinación de esa otra forma --de la forma no deseada-- (tad-itara-rūpa-nyagbhāvanam... iti)"|

No obstante (tu), se ha dicho (uktam): Nada (na kiñcid) puede descartarse (apāsyam) con respecto al Principio Supremo (para-tattve... iti)|

Inclusive (api) el perfume de la dualidad (dvaita-adhivāsaḥ) no es realmente una realidad separada (nāma na kaścana pṛthak vastu-bhūtaḥ) sino que más bien (api tu) es meramente ignorancia --no darse cuenta-- acerca de la naturaleza esencial (sva-rūpa-akhyāti-mātram tad). Por esto (atas), se ha dicho (también) --lit. a partir de la declaración-- (ukteḥ) que la remoción de la dualidad (apāsanam) se lleva a cabo (kriyate) por medio del vikalpa (puro) --o sea, a través del śuddhavikalpa o pensamiento puro-- (vikalpena... iti)|

Esta (ayam) Más Alta Realidad (parama-arthaḥ) (es) la naturaleza esencial (sva-rūpam) que es luminosa (prakāśamānam) (y que) espontáneamente (svayam) ha asumido (gṛhītam) la forma de ignorancia --no darse cuenta-- (akhyāti-rūpatvam) a través de (Su) Libertad Absoluta (svātantryāt). Dejando gradualmente (su Estado esencial) (krameṇa projjhya), queda lista para expandirse (vikāsa-unmukham). Después (atha) se expande (vikasat) (y) posteriormente (atha) se ha expandido (vikasitam). De este modo (iti), Ella se vuelve gradualmente manifiesta (krameṇa prakāśate) mediante este (proceso de expansión) (anena). Así (tathā), la naturaleza (sva-rūpam eva) del Señor Supremo (parama-īśvarasya) (es) brillar, (o sea,) hacerse manifiesto (prakāśanam api). Por ende (tasmāt), en este contexto (atra), los miembros del Yoga (yoga-aṅgāni) no son (na) los medios evidentes (sākṣāt upāyaḥ)|

Sin embargo (tu), (los sabios) favorecen (anugṛhṇīyuḥ api) tarka o razonamiento (tarkam). Solamente sattarka o Razonamiento correcto (sat-tarkaḥ eva) (es) el medio evidente (sākṣāt... upāyaḥ) en ese contexto (tatra). Ello (saḥ eva ca) (es) Conocimiento Puro --no el tattva 5 sino la irresistible Voluntad del Señor Śiva-- (śuddha-vidyā). Y (ca) se refina (saḥ... saṁskṛtaḥ bhavati) de múltiples maneras (bahu-prakāratayā), a saber (tad-yathā): "Sacrificio (yāgaḥ), homa (homaḥ), murmuración de un mantra (japaḥ), observancia de votos (vratam) (y) Yoga (yogaḥ iti)". Allí (tatra), yāga o sacrificio (yāgaḥ) (es) ofrecer todas las entidades positivas --entidades que existen, es decir, objetos y sujetos-- (sarva-bhāva-arpaṇam) al Señor Supremo (parama-īśvare) únicamente (eva) para establecerse en el vikalpa/pensamiento (puro) (vikalpa-rūḍhi-siddhaye): "Existe una permanencia (sthitiḥ) de todas las entidades positivas (bhāvānām sarveṣām) en el Señor Supremo (parama-īśvare) solamente (eva) --en otras palabras, todas las entidades positivas permanecen solamente en el Señor Supremo--. No hay nada (na anyat... asti) distinto o separado (de Él) (vyatiriktam... iti)". Este (yāga) (saḥ ca) (u) ofrenda (arpaṇam) es fácil de hacer (suśakan) para aquéllos (teṣām) que (ye) espontáneamente (svayam eva) disfrutan (bhajante) de una entrada en la Conciencia (saṁvida-nupraveśam) puesto que (tal ofrenda) complace al corazón (hṛdyatvāt). De esta forma (iti), con este propósito (abhiprāyeṇa), se ha mencionado (uktaḥ) el uso externo (bahis-upayogaḥ) de flores, libaciones, fragancias, etc. (kusuma-tarpaṇa-gandha-ādīnām) —todos los cuales son muy queridos (hṛdyānām)—|

Homa --lit. oblación con fuego-- (homaḥ) (es) la disolución de todas las entidades positivas, conjuntamente con sus remanentes que son meramente ese fuego (mismo) (tad-tejas-mātra-avaśeṣatva-saha-samasta-bhāva-vilāpanam), en el tejas o fuego de la Conciencia del Señor Supremo (parama-īśa-saṁvid-anala-tejasi) —al cual se lo considera aficionado a tragar todas las entidades positivas (samasta-bhāva-grāsa-rasikatā-abhimate)—. (¿Con qué fin realizar homa?) Para hacer que (el siguiente) vikalpa/pensamiento (puro) se establezca (rūḍha-vikalpa-prāptyai): "Todas (sarve) las entidades positivas (bhāvāḥ) están llenas del tejas --luz, esplendor, fuego-- del Señor Supremo (parama-īśvara-tejas-mayāḥ iti)"|

De la misma manera (tathā), japa --murmuración de un mantra-- (japaḥ) (es) una conciencia (parāmarśanam) interna (antar) (que es) tal (evaṁvidham tad) Principio (tattvam) Supremo (param) —el cual es la propia naturaleza esencial (sva-svabhāva-bhūtam iti)—, sin tener en cuenta las diferentes entidades positivas constituidas por objetos conocibles externos, internos, etc. (bāhya-abhyantara-ādi-prameya-rūpa-bhinna-bhāva-anapekṣayā eva). (¿Para qué practicas japa?) Para el surgimiento de una Conciencia que consista en ambos (ubhaya-ātmaka-parāmarśa-udaya-artham)|

Vrata --observancia de votos-- (vratam) (es) ver (avalokanam) al cuerpo (dehasya) al igual que (api... api) a vasija, etc. (ghaṭa-ādeḥ) con una actitud de unidad o identidad con el Señor Supremo (parama-īśvara-samatā-abhimānena) --en definitiva, vrata es ver que cuerpo, vasija, etc. son el Señor Supremo--. (¿Para qué?) Para alcanzar, en todas partes y siempre, la Conciencia del Señor Supremo, la cual está desprovista de upāya-s o medios --es decir, ningún medio es efectivo para alcanzar esta Conciencia-- (sarvatra sarvadā nis-upāya-parama-īśvara-abhimāna-lābhāya)|

Como se ha dicho (yathā uktam) en la venerable Nandiśikhā (śrī-nandiśikhāyām):

"... el voto (vratam) supremo (param) (es) unidad con todo (sarva-sāmyam... iti)"||

De esta forma (ittham), el innato (svābhāvikam) Principio de la Más Alta Realidad (parama-artha-tattvam) —que (yad) es independiente de vikalpa-s o pensamientos (anapekṣita-vikalpam)— brilla (prakāśate) a través de múltiples vikalpa-s que pertenecen a la porción de Conocimiento Puro --Śuddhavidyā-- (vicitraiḥ śuddha-vidyā-aṁśa-rūpaiḥ vikalpaiḥ). Con respecto a Eso (tasya eva), el Yoga --lit. unión-- (yogaḥ) (es) un vikalpa especial (vikalpa-viśeṣaḥ) cuya naturaleza es una inspección rigurosa --o sea, una conciencia intensa y repetitiva-- de esa naturaleza esencial (tad-sva-rūpa-anusandhāna-ātmā). (¿Para qué debería uno practicar Yoga?) Para establecerse únicamente en semejante Luz eterna (sanātana-tathāvidha-prakāśa-mātratā-rūḍhaye)|

En ese contexto (tatra), el Gran Señor (parama-īśvaraḥ) (es) la Plena o Perfecta naturaleza esencial de la Conciencia (pūrṇa-saṁvid-svabhāvaḥ). Śakti (śaktiḥ) (es) Su (asya) Plenitud o Perfección (pūrṇatā eva). A (Ella --Śakti--) se le llama (abhidhīyate) por medio de definiciones en las escrituras reveladas (āgama-bhāṣābhiḥ) que tienen que ver con diversos nombres propios cuyo significado es claro (tad-tad-anvartha-pravṛttābhiḥ): Totalidad (kulam), Capacidad (sāmarthyam), Ola (ūrmiḥ), Corazón (hṛdayam), Esencia (sāram), Vibración (spandaḥ), Poder (vibhūtiḥ), Señora de las Tres (tri-īśikā), La Que hace la quíntuple operación —a saber, "proyección, conocimiento, enumeración, movimiento y sonido", según el Tantrāloka 4.173-176— (kālī), La Que tiende o dobla (al Tiempo) (karṣaṇī), Impetuosa (caṇḍī), Habla (vāṇī), Disfrute (bhogaḥ), La Que ve o sabe (dṛk), Eterna (nityā), etc. (iti-ādibhiḥ). ¡Que Ella se siente silenciosamente (āstām) con cada una de esas formas (tena tena rūpeṇa) en el corazón (hṛdi) de los meditadores (dhyāyinām... iti)|

Y si se la ve a Ella como el Poder entero (sā ca samagra-śaktitā-darśanena), la Conciencia en Plenitud (pūrṇatā-saṁvid) se hace manifiesta (prakāśate)|

Y (ca) Sus --de la naturaleza esencial de la Conciencia Plena o Perfecta-- (asya) Poderes (śaktayaḥ) (son) innumerables (asaṅkhyeyāḥ)|

¿Cuál es el sentido de hablar mucho (kiṁ bahunā)? Los poderes (tāḥ... śaktayaḥ) que (yad) (constituyen) el universo (viśvam) le pertenecen a Ella --a la naturaleza esencial de la Conciencia Plena o Perfecta-- (asya). ¿Cómo (katham) pueden (tāḥ... śakyāḥ) ser enseñados (upadeṣṭum... iti)?|

(Pero) el universo (viśvam) (puede) ser completado (samāpyate) en tres (śakti-s o poderes) (tisṛṣu) verdaderamente (tāvat). Ella (sā) (es) Su --del Señor-- (asya) venerable Parāśakti --lit. Poder Supremo-- (śrī-parā-śaktiḥ) mediante la cual (yayā) el Señor Supremo (parama-īśvaraḥ) sostiene (bibharti), percibe --lit. ve-- (paśyati) y (ca... ca) manifiesta (bhāsayati) Esto --el universo-- (idam) —que empieza en Śiva y termina en el elemento tierra (śiva-ādi-dharaṇī-antam)— en la forma de únicamente Conciencia desprovista de vikalpa-s --es decir, no particularizada-- (avikalpya-saṁvid-mātra-rūpatayā)|

Ella (sā) (es) Su --del Señor-- (asya) venerable Parāparāśakti --lit. Poder Supremo-no-Supremo-- (śrī-parā-aparā-śaktiḥ) mediante la cual (yayā ca) (el Señor Supremo proyecta Esto --el universo--) como el reflejo de un elefante, etc. en un espejo (darpaṇa-hasti-ādi-vat), (a saber,) como bhedābheda --como una mezcla de dualidad y no dualidad, o sea, como una mezcla de diferente y no diferente-- (bheda-abhedābhyām)|

Ella (sā) (es) Su --del Señor-- (asya) venerable Aparāśakti --lit. Poder No Supremo-- (śrīmat-aparā-śaktiḥ) mediante la cual (yayā) (el Señor Supremo manifiesta Esto --el universo--) en dualidad (bhedena eva), (es decir,) como recíprocamente diferenciado (paraspara-vivikta-ātmanā)|

Ella (sā) (es) Su --del Señor-- (asya) Señora (bhagavatī), la venerable Parā (śrī-parā eva), —(también) mencionada por medio de otras palabras tales como venerable Mātṛsadbhāva, Kālakarṣiṇī, etc. (śrīmat-mātṛsadbhāva-kālakarṣiṇī-ādi-śabda-antara-niruktā)— mediante la cual (yayā) (el Señor Supremo) traga (grasate) este triple acto de sostener (etad trividham... dhāraṇam). (Él hace así) abrazando (a tal triple acto de sostener) (kroḍīkāreṇa) en Sí Mismo (ātmani eva) por medio de una conciencia intensa y repetitiva que lleva a la unidad (anusandhāna-ātmanā)|

Estas mismísimas (tāḥ etāḥ) cuatro (catasraḥ) śakti-s --poderes-- (śaktayaḥ), a través de (su propia) Libertad (svātantryāt) existen (vartante) de una triple manera (tridhā eva), una por una (pratyekam)|

(Existen de una triple manera, una por una,) en manifestación (sṛṣṭau), en sostenimiento (sthitau) y (ca) en disolución (saṁhāre). De este modo (iti), se vuelven (bhavanti) doce (dvādaśa)|

Así (tathā hi): (1) Primero (1... pūrvam), la Conciencia (saṁvid) divide y separa (kalayati) una entidad positiva (bhāvam) dentro (antar) solamente (eva). (2) Posteriormente (2 tatas), Ella expulsa (eso) (bahir api... kalayati) claramente (sphuṭatayā). (3) Ahí (3 tatra eva), (primeramente) Ella asume --lit. después de asumir-- (gṛhītvā) una condición llena de "rakti" o "afecto" --la Conciencia siente afecto por esa entidad positiva-- (rakti-mayatām); después de eso (tatas), Ella arroja (kalayati) esa entidad positiva (tam eva bhāvam) dentro (antar) con el deseo de retirar(la) (upasañjihīrṣayā). (4) Ulteriormente (4 tatas ca), (la Conciencia) crea (nirmiṇoti) una duda (śaṅkām) que es un obstáculo para el retiro de esa (entidad positiva) (tad-upasaṁhāra-vighna-bhūtām), y (ca... ca) (la) traga --se traga la duda-- (grasate). (5) Digiere (5... kalayati) la porción de entidad positiva (bhāva-bhāgam) (llamada) porción de la duda tragada (grasta-śaṅkā-aṁśam) en Sí Misma (ātmani) por medio del retiro o disolución (upasaṁhāreṇa). (6) Después de eso (6 tatas), (la Conciencia) hace que (kalayati) (Su) naturaleza (sva-bhāvam eva) llegue a la condición de hacedor del retiro (upasaṁhartṛtvam) (pensando:) "Esta (idam) forma (rūpam) (es) mía (mama... iti api)". (7) Más adelante (7 tatas), en el proceso de hacer que (Su) naturaleza sea el hacedor del retiro (upasaṁhartṛ-sva-bhāva-kalane), (la Conciencia) produce (kalayati) la permanencia (avasthitim) de alguna entidad positiva (kasyacid bhāvasya) en la forma de vāsanā o tendencia (vāsanā-ātmanā), pero (tu) otra --lit. alguna-- (kasyacid) (llega) a la condición de ser un remanente sólo como Conciencia (saṁvid-mātra-avaśeṣatām). (8) Luego (8 tatas), inseparablemente del proceso (antedicho) de hacer que (Su) naturaleza (sea el hacedor del retiro) (sva-rūpa-kalanā-nāntarīyakatvena eva), (la Conciencia) manifiesta (kalayati) al grupo de instrumentos --Jñānendriya-s y Karmendriya-s-- (karaṇa-cakram). (9) Después de eso (9 tatas), Ella también manifiesta (api kalayati) al señor de los instrumentos (karaṇa-īśvaram). (10) Ulteriormente (10 tatas), (la Conciencia) inclusive manifiesta (api kalayati) al inventado (kalpitam) (y) máyico (māyīyam) perceptor (limitado) --el sujeto limitado-- (pramātṛ-rūpam). (11) También manifiesta (11... api... kalayati) al sujeto limitado (pramātāram) que se deleita en asumir una expansión (y) que está resuelto a abandonar las limitaciones (saṅkoca-tyāga-unmukha-vikāsa-grahaṇa-rasikam). (12) Más tarde (12 tatas), (la Conciencia) también manifiesta (api... kalayati) a la (plenamente) expandida (vikasitam) naturaleza (rūpam... iti). Estas (etāḥ) doce (dvādaśa) señoras (bhagavatyaḥ) de la Conciencia (saṁvidaḥ) se hacen manifiestas --lit. participando del surgimiento-- (udaya-bhāginyaḥ) con referencia a (uddiśya) los sujetos limitados --o sea, los perceptores-- (pramātṝn) o (vā api) a (solamente) uno (de ellos) (ekam), simultáneamente (yugapad) (o) en secuencia (krameṇa), (y) permanecen --lit. permaneciendo-- (sthityā api) en pares (dviśas), en tríadas (triśas), etc. (iti-ādi). (Estas señoras) rotan (āvartamānāḥ) como una rueda (cakra-vat). Brillan (bhāsamānāḥ) externamente (bahis api) en un progreso regular como meses, dígitos de la luna --un dígito es una dieciseisava parte del diámetro de la luna--, signos del zodíaco, etc. (māsa-kalā-rāśi-ādi-krameṇa) o (vā), finalmente (antatas), en un progreso regular como vasijas, piezas de tela, etc. (ghaṭa-paṭa-ādi-krameṇa api). Nutren (puṣṇatyaḥ) la Libertad (svātantryam) del Señor del grupo (cakra-īśvarasya), (y) se las aborda por medio de la palabra "Śrīkālī-s" --lit. venerables Kālī-s-- (śrī-kālī-śabda-vācyāḥ)|

(Las doce Kālī-s realizan "kalana". ¿Pero qué es "kalana"?). Kalana (kalanam ca) (es) movimiento (gatiḥ), proyección (kṣepaḥ), conocimiento (jñānam), enumeración (gaṇanam), hacer objetos de disfrute (bhogīkaraṇam), sonido (śabdanam), y (ca) hacer que (todo) se disuelva en el propio Ser (sva-ātma-layīkaraṇam)|

Como el venerable Guru Bhūtirāja (yad... śrī-bhūtirāja-guravaḥ) dijo (āhuḥ):

"Kālī (kālī) está sujeta a kalana (kalana-vaśatayā atha) debido a proyección (kṣepāt) y (ca) conocimiento (jñānāt... iti) --el significado literal puede que sea confuso... para ser más claro, se le llama a Ella Kālī ya que realiza kalana, es decir, Ella proyecta y conoce--..."||

Este (eṣaḥ ca) significado (de la palabra "Kālī") (arthaḥ) puede hallarse --lit. visible-- (vīkṣyaḥ) en detalle (vitatya) en (mi Parātrīśikā)vivaraṇa (vivaraṇe) (y) en tratados, himnos, etc. (prakaraṇa-stotra-ādau) de mi autoría (mad-viracite)|

Lo que es extremadamente secreto (ati-rahasyam) no debe ser proclamado (na... khyāpyam) en un solo lugar (ekatra). Mis Guru-s --lit. nuestros Guru-s-- (asmad-guravaḥ) (también dijeron que lo que es extremadamente secreto) no debe estar oculto (na ca sarvathā gopyam iti hi)|

De esta manera (tad evam), lo que (yad... tad) se ha dicho (uktam) (sobre) yāga, homa, etc. (yāga-homa-ādi) debe considerarse (mantavyam) como únicamente para tal Maheśvara --no el Gran Señor de todo, sino la deidad regente del embrión de Māyā-- (evaṁvidhe maheśvare eva)|

Todos (sarve) ciertamente (hi) perciben (paśyanti) lo que hay que abandonar (heyam eva) (al igual que) lo que hay que aceptar --lit. lo que está en la etapa "aceptable"-- (upādeya-bhūmi-rūpam), desde Viṣṇu (viṣṇutas prabhṛti) hasta Śiva (śiva-antam), como Paramaśiva (paramaśivatayā). Y (ca) ese (tad) punto de vista falso (mithyā-darśanam) debe necesariamente ser dejado a un lado (avaśya-tyājyam) por parte de los yogī-s que están en su lucha por alcanzar Anuttara --la Más Alta Realidad-- (anuttara-yogibhiḥ iti). Por esa razón (tad-artham eva), (uno puede ver) un gran (mahān) entusiasmo (saṁrambhaḥ) en el Anubhavastotra de Vidyādhipati (vidyādhipateḥ anubhavastotre). En tal grupo de cinco cosas (evaṁvidhe... pañcake), una por una (pratyekam), comenzando con yāga (yāga-ādau) y (ca) terminando en Yoga (yoga-ante), (existen) múltiples (bahuprakāram) establecimientos (nirūḍhiḥ) --o sea, hay muchas formas de establecerse en la propia naturaleza esencial--. Así como (yathā yathā) es (bhavati), así (tathā eva) debería uno proceder o practicar (ācaret). Sin embargo (tu), el propio ser --uno mismo-- (sva-ātmā) no debería quedar afligido (khedanīya), tal como se declara (iti uktam) en el venerable Mālinīvijayottaratantra, etc. (śrī-pūrva-ādau), por el acto de distinguir entre alimento que hay que comer y no comer, pureza e impureza, etc. (bhakṣya-abhakṣya-śuddhi-aśuddhi-ādi-vivecanayā), (un acto) que no tiene nada que ver con las cualidades de la cosa (en cuestión) (vastu-dharma-ujjhitayā) (sino que más bien es) esencialmente sólo imaginación (kalpanā-mātra-sārayā). La pureza (śuddhiḥ) no es para nada (na hi) la naturaleza (rūpam) de una cosa (vastunaḥ) como lo es el color azul (nīlatva-vat). (¿Por qué?) Porque ella --esa cosa-- se ha prescripto como impura (tasya eva aśuddhi-codanāt) en algún otro sitio o en otra ocasión (anyatra). (Por ejemplo,) como en el caso de un regalo (dānasya iva) (que se le da) a alguien que ha sido iniciado (dīkṣitatve), si (ced) debido a un precepto (codanātaḥ) para ello (tasya), eso (tad) (es) "impuro" (aśuddham iti) con respecto a él --a ese precepto-- (tatra), (entonces) es también lo mismo (api tulyam) con relación a otro precepto (codanā-antare). El otro precepto (codanā-antaram) (es por ende) irreal (asat) ya que lo contradice --a saber, contradice al primer precepto-- (tad-bādhitatvāt). Si (ced) (alguien quiere discutir) de esta manera (iti), (digo) "No" (na). En el caso del precepto de Śiva (śiva-codanāyāḥ eva), diré (más adelante) (vakṣyāmaḥ) que (iti) invalida (otros preceptos) (bādhakatvam), (que) queda probado mediante razonamiento (yukti-siddham) y (ca) (que) ha sido probado en innumerables escrituras reveladas tales como Sarvajñānottaratantra, etc. (sarvajñānottara-ādi-ananta-āgama-siddham)|

Por consiguiente (tasmāt), se ha probado que (iti siddham) la observancia (niyamaḥ... saḥ), regla (vidhiḥ) o (vā... vā) prohibición (niṣedhaḥ), empezando a partir de las escrituras védicas (vaidikāt prabhṛti)(o) que (yaḥ) se haya incluso mencionado en las escritura del Señor Supremo tales como el Siddhāntatantra, el Kulocchuṣmatantra, etc. (pārama-īśvara-siddhāntatantra-kulocchuṣma-ādi-śāstra-uktaḥ api)—, es (totalmente) inútil (yāvat akiñcitkaraḥ eva) aquí (atra)|

Se ha expresado así (tathā eva ca uktam) en el venerable Mālinīvijayottaratantra, etc. (śrī-pūrva-ādau) (y) se ha investigado (anveṣyam) en gran detalle (vitatya) en el Tantrāloka (tantrālokāt)|

"La firme convicción (yaḥ niścayaḥ) de un ser limitado (paśu-janasya) (es la siguiente:) 'Soy (asmi) torpe (jaḍaḥ), estoy (asmi) completamente atado por las acciones (karma-sampāśitaḥ), soy (asmi) impuro (malinaḥ), soy (asmi) movido por otros (para-īritaḥ iti)'. (Sin embargo,) alcanzando una firme convicción que sea contraria a la anterior --lit. otra aparte de ésta-- (etad-anya-dṛḍha-niścaya-lābha-siddhyā), él enseguida se vuelve (sadyas... bhavati) el Señor (patiḥ) que es Conciencia (cit-ātmā) (y) cuya bella forma es el universo (viśva-vapus)"||

"Si (yathā yathā) tal (īdṛk) firme convicción (niścayaḥ) se alcanza (āpyate), entonces (tathā) el supremo Yogī debería siempre cuidar de ella --tal firme convicción debería ser constantemente atendida-- (avadheyam para-yoginā sadā). Él no debe permanecer dubitativo (na... viśaṅkitavyam) debido a un punto de vista (dṛśā) que carezca de la verdadera naturaleza o esencia de las cosas (vastu-yāthātmya-vihīnayā), (o) debido a las enseñanzas de materialistas o tontos --lit. debido a los grupos de mandamientos de niños-- (śiśu-deśanā-gaṇaiḥ)"||


Sin una explicación global todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 3 Top   

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.